________________
। ५।।
पदानि स्थानानि मनुष्यजन्मदुर्लभत्वादीनि, यद्वा, उपदेशा एव पदानि वचनानि उपदेशपदानि तानि । कतिचित स्वल्पानि सूत्रतः, अर्थतस्त्वपरिमाणानि, सर्वसूत्राणामनन्तार्थाभिधायकत्वेन पारगतगदितामे प्रतिपादनात् । तथा चार्षम; -"सव्वनईणं जा हुज्ज वालुया सव्वउदहि जं तोयं । एत्तो अणंतगुणिओ अत्थो सुत्तस्स एक्कस्स ॥१॥" कथं वक्ष्ये इत्याह;-तस्य महाभागादिगुणभाजनस्य भगवतो महावीरस्योपदेशास्तदुपदेशास्तेभ्यस्तदुपदेशतः महावीरागमानु-4 सारेणेत्यर्थः, स्वातन्त्रयेण च्छद्मस्थस्योपदेशदानानधिकारित्वात्। कीदृशानीत्याह,-सूक्ष्माणि सूक्ष्मार्थप्रतिपादकत्वात् कुशाग्रबुद्धिगम्यानि, अत एव भावार्थ ऐदम्पर्य तदेव सारः पदवाक्यमहावाक्यार्थेषु मध्ये प्रधानं तेन युक्तानि भावार्थसार
युक्तानि । भावार्थश्च "एयं पण एवं खलु" इत्यादिना वक्ष्यते । किमर्थमित्याह;-मन्दा जडा संशयविपर्ययानध्यवसाA यविप्लवोपेता तत्त्वप्रतीति प्रति मतिर्बुद्धिर्येषां ते तथा तेषां विबोधनं संशयादिबोधदोषापोहेन परमार्थप्रकाशनं तदेवार्थः प्रयोजनं यत्र भणने तन्मन्दमतिविबोधनार्थम्, क्रियाविशेषणमेतत् ॥ २ ॥ अथ पदेषूपदेशपदेषु सर्वप्रधानमुपदेशपदं तदभि धित्सुराहः
लद्ध ण माणुसत्तं कहंचि अइदुल्लहं भवसमुद्दे । सम्मं निउंजियव्वं कुसलेहि सयावि धम्मम्मि ॥३॥ लब्ध्वा समुपलभ्य मानुषत्वं मनुजभावलक्षण कथंचित्केनापि प्रकारेण तनुकषायत्वादिनाध्यवसायविशेषेणेत्यर्थः, यदवाचि;-"पयईइ तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिगुणेहि जुत्तो मणयाउं बंधए जीवो ॥१॥" अतिदुर्लभमतीव दुरापं वक्ष्यमाणैरेव चोल्लकादिभितिभवसमुद्रेऽनेकपरजात्यन्तरनीरभराकीर्णेऽनर्वापारे संसाराक
॥५॥