________________
॥७॥
XXXXXXXXXXXXXXXXXXXX
चोल्लगपासगधण्णे-जूए रयणे य सुमिणचक्के य । चम्मजुगे परमाणू-दस दिद॒ता मणुयलंभे ॥५॥ चोल्लकश्च पाशकौ च धान्यानि चेति चोल्लकपाशधान्यानि, 'धन्ने' इत्येकवचननिर्देशः प्राकृतत्वात, एवमन्यत्रापि १-२-३, वू तं प्रतीतमेव ४, रत्नानि च ५, स्वप्नश्च चक्रं चेति स्वप्नचक्रे ६-७, चः समुच्चये, चर्म च युगं चेति चर्मयुगे ८-९, पदैकदेशेऽपि पदसमुदायोपचारादिह युगशब्देन युगसमिले गृह्यते, परमाणवः १० अमी दशसंख्याः , दृष्टं प्रमाणोपलब्धमर्थं मनुजत्वदुर्लभत्वादिलक्षणमन्तं श्रोतुः प्रतीतिपथं नयन्तीति दृष्टान्ताः मनुजलम्भे मानुष्यप्राप्तावित्यर्थः । दृष्टान्तभावना चैवं कार्या:-जीवा मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति बह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्वहुभिरन्तरायैरन्तरितं तत तत पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवत्तिमित्त्रस्य ब्राह्मणस्यैकदा चक्रवत्तिगृहे प्राप्तभोजनस्य सकलभरतक्षेत्रवास्तव्य राजादिलोकगृहपर्यवसाने पुनश्चक्रवतिगृहे चोल्लकापरनामभोजनवत् १, चाणाक्यपाशकपातवत् २, भरतक्षेत्रसर्वधान्यमध्यप्रक्षिप्तसर्षपप्रस्थपुनीलकवत् ३ अष्टाधिकस्तम्भशतोष्टोत्तराश्रिशताष्टसमर्गलशतवारानिरन्तरद्य तजयवत् ४, महाश्रेष्ठिपुत्रनानावणिक्देशविक्रीतरत्नसमाहारवत् ५, महाराज्यलास्वप्नदर्शनाकाङ्गिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् ६, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रारकपरिवर्तान्तरितराधावेधवत् ७, एकच्छिद्रमहचविनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् ८, महासमुद्रमध्ये विघटितपूर्वापरान्तविक्षिप्तयुगे समिलास्वयंछिद्रानुप्रवेशवत् ९, अनन्तपरमाणुसंघातघटितदेवसंचूर्णितविभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा १०, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणबह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्मा
XXXXXX*******************
॥७॥