________________
श्रीउपदेशपदे०
द्वा०
1१३०॥
पभणंति परोप्परं पहिट्ठमणा सामत्थमेत कित्तियमम्हाणं तो भणंतेवं ॥३५।। दवखत्तणयं पुरिसस्स पंचगं, सइयमाहु सुंदेरं । बुद्धी सहस्समुल्ला सयसाहस्साई पुण्णाई ।।३६॥ सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेण । बुद्धीइ अमच्चसुओ जीवइ पुण्णेहिं रायसुओ ॥३७॥ एत्थ य पत्थुयमेयं अमच्चपुत्तस्स तस्स किल बुद्धी। उप्पत्तियत्ति नेया सेसं तु पसंगओ भणियं ॥३८।। इति ।
अथ गाथाक्षरार्थः-पुत्त इति द्वारपरामर्शः । इह कश्चित् प्रचुरद्रव्यसहायो वणिक भार्यायुगलसमन्वितो राष्टान्तरमवागमत् । तत्र चैकस्यास्तत्पत्न्याः पुत्रः समजनि । एवं च 'सवत्तिमायाडिभग'त्ति तस्य डिम्भकस्य बालस्य तयोर्मध्यादेका माता सवित्री अन्या च सपत्नी संपन्ना 'पइमरण'त्ति दैवदुर्योगाच्च लघावेव तस्मिन् पुत्रके यशःशेषतां ययौ स वणिक् । डिम्भकश्च न जानाति का मम जननी तदन्या वा। तदनु निबिडमायासहाया प्राह सपत्नी,-ममैषोऽर्थः पत्युः संबन्धी आभाव्यः, यतो मया जातोऽयं पुत्र इति । जातश्च तयोर्द्वयोरपि व्यवहारः प्रभूतं कालं यावत् न च छिद्यतेऽसौ । ततः किरियाभावे' इति क्रियाव्यवहारस्तस्या अभावे तयोः संपन्ने सति निपुणबुद्धिना प्रागुक्तकथानकोद्दिष्टेन मन्त्रिपुत्रेण प्रोक्तम् ; -'भागा दो पुत्तो' इति, एष नौ पुत्रो द्विभागीक्रियतां करपत्रकेण तदर्द्ध मद्धं पुत्रार्थयोर्भवत्यो | दास्यामीत्यानीतं च करपत्रम्, यावत् पुत्रकोदरोपरि दत्तं तावत् 'बेइ नो माया' इति-या सत्या माता सा ब्रवीति सस्नेहमानसा सती प्रतिपादयति यथा नो नैवामात्य ! त्वयैतत् कर्त्तव्यं, गृहणात्वेषा मत्सुत्रमर्थं च, अहं तु अस्य जीवतो मुखारविन्ददर्शनेनैव कृतार्था भविष्यामीति । ततो ज्ञातं मन्त्रिनन्दनेन यदुतेयमेव माता, दत्तश्च सपुत्रोऽर्थ एत
।।१३०।।