SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १२७॥ XXXXXXXXXXXXXX कथमेतज्ज्ञायते ? मन्त्रिणाप्युक्तम्,-'परीच्छा' इति देव, तस्याः परीक्षार्थमेतामाज्ञां देहि, यथा-अद्य त्वदीयभर्तृभ्यां नगरात् पूर्वापरदिग्भागवत्तिनोमियोर्गन्तव्यमागन्तव्यं चाद्य व । ततो वितीर्णा चेयमाज्ञा राज्ञा । तयापि 'पेसणा वरपियस्स'त्ति यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेषणं कृतं, सामर्थ्यादितरस्येतरत्र । ततः प्रोक्त ममात्येन-'आइओ' इति-देव, योऽपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः, यतः तस्य गच्छत आगच्छत-- Hश्चादित्यः पश्चाद् भवति, इतरस्य तुभयथापि ललाटफलकोपतापकारीति । राजा-'इहरासंभव'त्ति इतरथाप्यनाभोगतो ऽप्येवं प्रेषणसंभवो घटते । अतः कथं निश्चिनुमो यदुतायमेव प्रेयानिति ? ततोऽमात्येन भूयः पुनः परीक्षार्थं ग्रामे गतयोरेव तयोः 'समगगिलाणे' इति समकमेककालमेव ग्लानत्वं सरोगत्वं निवेदितम्-तौ तदीयो द्वावपि पती ग्रामगतो ग्लानीभूतौ इत्येककालमेव तस्या ज्ञापितमिति भावः तस्मिश्च ज्ञापिते तया प्रोक्तं योऽपरस्यां दिशि गतो मद्भर्ताऽसौ 'असंघयणी'ति-असंहननी अदृढशरीरसंस्थानबल इति तत्प्रतिजागरणार्थं गच्छामि तावत् । गता च तत्र । ज्ञातं च सुनिश्चितममात्यादिभिर्यदुतायमेव प्रियो विशेषत इति ॥९४।। पत्ते सवत्तिमाया डिभग पइमरण मज्झ एसत्थो। किरियाभावे भागा दो पुत्तो बेइ णो माया ॥९५।। इह आसि कत्थवि पुरे निवमंतीसेट्टिसत्थवाहाण । पुत्ता. पवित्तचित्ता चत्तारि कलाकलावविऊ ॥१॥ अन्नोन्नदढप्पणया पत्ता तरुणत्तणं जणमणन्नं । खणमेत्तंपि न विरहं सहंति, तत्ति चिय वहति ॥२॥ पभणंति अन्नया ते परोप्परं एकमाणसा होउं । किं सोवि नरो गणणं लहेइ जणमज्झयारम्मि? ॥३॥ जेण न अप्पा देसंतरम्मि गंतूण KKRXXKXKKKKKAKKK १२७॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy