________________
श्रीउपदे
'मार्गस्ती'
शपदे
BI द्वा०
||१२६।।
XXXXXXXXXXXXXXX
जलनिमित्तमुत्तीर्णा शकटात् । तत एका व्यन्तरी तस्य यूनो रूपे लुब्धा सती सत्यतत्स्वीतुल्यरूपमाधाय गन्त्र्यामारूढा । प्रस्थितश्चासौ तया सह । तदनु सत्यभार्या पश्चादवस्थिता विलपति, यथा-प्रियतम! किमिति मामेकाकिनी कान्तारे परित्यज्य प्रचलितोऽसि ? 'तीयाइकहणत्ति तेनापि निश्चयार्थ द्वे अपि स्वगृहवृत्तान्तमतीतमादिशब्दाद् वर्तमानं च पृष्टे तदनु यथावद् द्वाभ्यामपि कथनं कृतं समग्रस्यापि तस्य । व्यवहारे इति तदनु कारणिकाग्रतः प्रारब्धे व्यवहारे कारणिकनिपुणौत्पत्तिकीबुद्धियुक्तः 'हत्थाविसए ठावण'त्ति हस्तस्याविषयेऽगोचरे स्थापनं कृतं कस्यचित् पटादेर्वस्तुनः 'गह'त्ति या एतद्द गस्थितैव गृहीष्यति सा एतद्भार्येति वदद्भिः । 'दोहा गरिसणे' इति तदनु व्यन्तर्या वैक्रियलब्ध्या दीर्घ हस्तं कृत्वा आकर्षणं कृतं तस्य वस्तुनः । तस्मिश्च सति ज्ञानं संशयापनोदः संपन्नः कारणिकानां यदुतेयं व्यन्तरीति । तदनु निर्घाटिता सा तैरिति ।।९३।।
अथ पतिरिति द्वारम् ;पतिदुगतुल्ला ण परिच्छ पेसणा वरपियस्स आइओ। इहरासंभव भुज्जो समगगिलाणे असंघयणी ॥१४॥
क्वचिन्नगरे कुतोऽपि प्रघट्टकात् कस्याश्चित् स्त्रिया द्वौ पतो संपन्नौ । भ्रातरौ च तौ परस्परम् । लोके महान् प्रवाद उद्घाटितो यथा;-अहो महदाश्चयं यदेकस्या द्वौ पती, तथापि 'पइदुगतुल्लत्ति' पतिद्वयेऽपि तुल्या समानप्रतिबद्धा एका स्त्री। एष च वृत्तान्तो जने विस्तरन् राजानं यावद् गतः । तुल्योपचारसारा च किल सा तयोर्वर्त्तते । नेति-अमात्येनोक्तम्,-न नैवायं वृत्तान्तः संभवति यदुत समानमानसिकानुरागा द्वयोरपीति ततः प्रोवाच महीपतिः,
४॥१२६॥
KXXXXXXX