SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 'स्तंभ' श्रोउपदेशपदे 'क्षुल्लक' द्वा० ।।१२४॥ खुड्डग पारिव्वाई जो जं कुणइत्ति काइगापउमं । अण्णे उ कागविट्ठा पुच्छाए विण्डमग्गणया ॥११॥ 'खुडुग' इति द्वारपरामर्शः । 'पारिव्वाई जो जं कुणइति' काचित सदर्पप्रकृतिः परिवाजिका प्रसिद्धरूपा, यो यत्किचित् कुरुते ज्ञानविज्ञानादि तत् सर्वमहं करोमीत्येवं प्रतिज्ञाप्रधानपटहक नगरे दापितवतो। क्षुल्लकेन केनचिद् भिक्षार्थं नगरमध्ये प्रविष्टेन श्रुतोऽयं वृत्तान्तः । चिन्तितं च तेन 'न सुन्दरावधीरणाऽस्याः' । स्पृष्टश्च पटहकः । गतश्च राजकुलम् । दृष्टा च तत्र सा राजसभापविष्टा । तया च तं लघुवयसं क्षुल्लकमवलोक्य भणितम्,-कुतस्त्वां-गिलामि ? ननं त्वं मम भक्षणनिमित्तमेव देवेन प्रेषितोऽसि । तेन चानुरूपोत्तरदानकुशलेन झगित्येव स्वमेहनं दर्शितम् । एवं च प्रथमत एव जिता सा। तथा, 'काइया पउमति कायिकया प्रतीतरूपया शनैः शनैस्तद्वाररूपं भुवि पद्म विलिखितम्, भणिता च-'धृष्टे ! संप्रति सर्वसभ्यपुरुषप्रत्यक्षं स्वप्रतिज्ञां निर्वाहय यदि सत्यवादिनी त्वमसि । न च सा तल्लिखितुं शक्नोति, अत्यन्तलञ्जनीयत्वात् सामग्रयभावाच्चेति मतान्तरमाह; -अन्ये पुनराचार्या ब्रुवते, यथा-'कागविटापुच्छाए' इति काकः कश्चित् क्वचित् प्रदेशे विष्ठां विकिरन् केनचिद् भागवतेन दृष्टः । सत्कालदृष्टिगोचरापन्नश्च क्षल्लकस्तेन पृष्टः, यथा-भो लघुश्वेताम्बर! किमिदं काको विष्ठां 'विक्षिपन्नितस्ततो निभालयती' ति वद, सर्वज्ञपुत्रको यतस्त्वम् । अस्यां च पृच्छायां भणितं क्षुल्लकेन, यथा-विण्हमग्गणया' इति एष हि काकः "जले विष्णुः स्थले विष्णुविष्णः पर्वतमस्तके। ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत्" ।।१॥ इति श्रुतस्मृतिशास्त्रः संपन्नकौतुहलश्च किमत्र विष्णुविद्यते न वेति संशयापनोदाय तं मार्गयितुमारब्धः ॥९१॥ *************************** ।।१२४।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy