________________
। १२३ ।।
गोलग उमयणक्के पवेसणं दूरगमणदुक्खम्मि । तत्तसलागाखोहो सीयल गाढत्ति कडूया ॥८९॥
‘गोलग’त्ति द्वारपरामर्शः । 'जउमयनक्के पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्यचिच्छिशोः प्रवेशनमभूत् । दूरगमणदुक्खम्मित्ति दुरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तत्पित्रावार्त्ता कथिता कलादाय । तेनापि ' तत्तसलागाखोहो'त्ति तप्तयाऽयः शलाकया क्षोभेा भेदः कृतो गोलकस्य नासिकामध्य गतस्यैव । तदनु 'सीयल 'त्ति पानीयं क्षिप्त्वा शीतला कृता शलांका । ततश्च' 'गाढत्ति कड्डणया' इति जलावसिक्ता सती गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकायाः । तदाकर्षणे च गोलकोऽप्याकृष्टः । तदनु सुखितः समजनि दारकः ॥८९॥
खंभे तलागमज्झे तब्बंधण तीरसंठिएणेव । खोंटग दीहा रज्जू भमाडणे बंधण सिद्धी ॥९०॥
'स्तंभ' इति द्वारपरामर्शः । केनचिद्राज्ञा क्वचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थं राजभवनद्वारे पत्रमवलम्बितम्, यथा तडागमध्ये इति नगरपरिसरवत्तनोऽस्य तडागस्य मध्ये य स्तम्भा वर्त्तते, 'तब्बंधण'त्ति तस्य स्तम्भस्य बन्धनं नियन्त्रणं येन केनचित् सुबुद्धिबलेन तोरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'खुंटय'त्ति तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीर्घा तडागायामव्यापिनी रज्जुः प्रतीतरूपा बद्धा । ततस्तस्या भ्रमानेन भ्रमणेन प्रवृत्त्याऽटने सतिः बन्धन प्रसिद्धिः स्तम्भगोचरा संपन्ना । लब्धं च तेन यद्राज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति ।। ९० ।।
।। १२३ ।।