SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ *'गज' द्वा० श्रीउपदेशपदे 1१२२।। पाषाणानां भृतासो तावद्यावत्तां रेखां यावजलमध्ये निमग्ना । ततस्ते पाषाणास्तुलिताः । एवं संख्याया गजगोचरभारपलादिप्रमाणलक्षणायाः परिज्ञानमभूत्तस्य यावती संख्या पाषाणप्रतिबद्धभारादीनां तावत्येव गजस्यापीति ज्ञातं तेनेति भावः । तत: परितुष्ट मानसेन धराधिराजेन मन्त्रिपदमस्मै वितीर्णमिति ।।८७॥ घयणोऽणामयदेवी रायाह ण एव गंधपारिच्छा । णाते हसणा पुच्छण कह रोसे धाडुवाह ठिती ॥८॥ 'धयण' इति द्वारपरामर्शः । 'अणामयदेवी राया'त्ति कोऽपि राजा सर्वराहसिकप्रयोजनवेत्तुः स्वकीयभाण्डस्याग्रत इदं प्राह ;-यदुत मम देवी पट्टराज्ञी अनामया निरोगकायलतिका कदाचित् सरोगतासूचकं वातकर्मादि कुत्सितं कर्म न विधत्त इति घयणः, 'न एव'त्ति देव ! नैवायमर्थः संभवति यन्मानुषेषु वातादि न संभवतीति । ततो राज्ञोक्तम्, कथं त्वं वेत्सि ? घयणः, 'गंधपरिच्छा' इति महाराज यदा देवी तव गन्धानुपलक्षणत्वात् पुष्पादि च सुरभिद्रव्यमयति तदा परीक्षणीया सम्यग् वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन ततो ज्ञाते देव्याः शठत्वे 'हसणा' इति राज्ञा हसनं कृतम् । 'पुच्छण'त्ति तथाप्यकाण्ड एव हसन्तमालोक्य तं पृष्टोऽसौ, यथा किमर्थं देव ! हसितं त्वयाऽप्रस्ताव एवेति ? 'कह'त्ति ततो यथावृत्तं निवेदितं देव्या नरनाथेन अथ 'रोसे धाडवाह'त्ति भाण्डं प्रति रोषे जाते देव्या घाटितो निर्धाटितो घयणः । ततो महती वंशयष्टि निबद्धभूतोपानद्भरामादाय देवीप्रणामार्थमुपस्थितोऽसौ। पृष्टश्च तया, यथा कि रे एता उपानहस्त्वया वंशे निबद्धाः ? तेनाप्युक्तं तावकी कीर्ति निखिलां महीवलये ख्यापयित्वा एता घर्षणीया इति । ततो लज्जितया देव्या स्थितिस्तस्य कृता विधृतोऽसावित्यर्थः ।।८८।। ॥१२२॥ EXXXXXXXXX
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy