________________
।। १२१ ।।
***
उच्चार बुडतरुणी तदण्णलग्गत्ति नायमाहारे । पत्तेयपुच्छ सक्कुलि सण्णावोसिरण णाणं तु ॥ ८६ ॥ 'उच्चार' इति द्वारपरामर्श: । 'बुडतरुणी इति कस्यचिद् वृद्धब्राह्मणस्य तरुणी जाया समजनि । अन्यदा चासौ तथाविधप्रयोजनवशात्तया सह ग्रामं गन्तुं प्रवृत्तः । सा चाभिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वप्नेऽप्यकुर्वाणा 'तदन्नलग्गत्ति' तस्मान्निजभर्तुरन्यस्मिस्तरुणे धूर्त्ते लग्नानुरागं गता स्वं भर्त्तारं परिमुच्य तेन सह प्रस्थिता इत्यर्थः । इति वाक्यपरिसमाप्तौ । 'नाय'त्ति तता न्यायो व्यवहारः क्वापि ग्रामे तयेार्ब्राह्मणधूर्त्तयेारभूत् । ' आहारे पत्तेय पुच्छ' त्ति ततः कारणिकैः प्रत्येकं त्रीण्यपि तान्यतीत दिवसाहाराभ्यवहारं पृष्टानि । 'सक्कुलि'त्ति ततो ब्राह्मणेन तद्भार्यया च सत्कुलिकालक्षण एक एवाहारः कथितः, 'तदनु सन्नावोसिरण णाणं तु' इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपलम्भाज्ज्ञानं पुनरजायत कार्णिकानां यदुतास्यैव ब्राह्मणस्येयं भार्या, नास्य धूर्त्तस्येति ॥ ८६ ॥ |
अथ गज इति द्वारम् ;
गयतुलणा मंतिपरिक्खणत्थ नावाइ उदगरेहाओ । पाहाणभरणतुलणा एवं संखापरिणाणं ॥ ८७॥
गजस्य कुञ्जरस्य तुलना प्रारब्धा मन्त्रिपरीक्षणार्थम् । अयमभिप्रायः - क्वापि नगरे मन्त्रिपदप्रायेाग्यविशदबुद्धयपेतपुरुषोपलक्षणार्थं राज्ञा पटहप्रदानपुरस्सरमेवमुद्घोषणा कारिता, यथा - यो मदीयमतंगजं तुलयति तस्याहं शतसहस्रं - दीनाराणां प्रयच्छामीति । 'नावाए उदगरेहाओ' इति । ततः केनापि निपुणधिषणेन नावि द्रोण्यां गजं प्रक्षिप्यागाधे उदके नीतासौ नौर्यावच्चासौ गजभाराक्रान्ता सती ब्रुडिता तावति भागे रेखा दत्ता । ततेा गजमुत्तार्य 'पाहाणभरण' त्ति
।। १२१ ।।