________________
'सरट' 'काक'
श्रोउपदे
डसट्ठित्ति' विन्नातटे नगरे कियन्तः काका वर्तन्ते? ततः क्षुल्लकेनोक्तम् ;-अहो भिक्षो षष्टिः काकसहस्राणि अत्र नगरे वर्त्तन्ते । शपदे
X भिक्षुः-ननु यद्य ना अधिका वा काका भविष्यन्ति तदा का वार्चेति ? क्षुल्लक:-'ऊणपवासाई' इति ऊना उपलक्षणत्वाद् अभ्य-* धिका वा यदि भवतो गणयतः काकाः संपद्यन्ते तदा प्रोषितादयः प्रोषिता देशान्तरं गताः, आदिशब्दादन्यतो वा
देशान्तरात् प्राघुर्णकाः आगताः इदमुक्तं भवति-यदि ऊनाः संजायन्ते तदान्यत्र गता इति ज्ञेयम्, अथाभ्यधिकास्तहि ०॥ प्राघुर्णकाः समायाता इति । तदनु निरुत्तरी बभूव शाक्यशिष्यः । अत्रैव मतान्तरमाह;--अन्ये आचार्या
ब्रुवते, यथा-केनचिद्वणिजा तथाविधाद्भुतपुण्यप्राग्भारोदयेन क्वापि विवेक्ते प्रदेशे निधिदृष्टो गृहीतश्च । तदनु घरिणिपरिच्छाणिहि'त्ति-गहिण्या भार्यायाः परीक्षा तेन निधिरक्षणार्थं कृता, किमियं रहस्यं धारयितुं शक्नोति न वेति बुद्धया। इदमत्रदंपर्यम् ;-तेन निजजायेवं प्रतिपादिता, यथा-मम पुरीषोत्सर्ग कुर्वाणस्य श्वेतवायसोपानरन्धं प्रविष्ट इति । तया तु स्त्रीत्वचापल्यापेतया निजसख्याः ख्यापितोऽयं वृत्तान्तः । तयाप्यन्यस्याः । एवं यावत् परम्परया
राज्ञापि ज्ञातैषा वार्ता । ततः 'फु? रायणुन्नाओं' इति स्फुटिते प्रकटं गतेऽस्मिन् व्यतिकरे पार्थिवेन समाहूय पृष्टोऽसौ, * यथा-वणिक् ! किमिदं सत्यम्, यतः श्रूयते, त्वदधिष्ठानं पाण्डुराङ्गो ध्वाङ्क्षः प्राविक्षदिति ? ततो निवेदितं तेन,
यथा-देव, मया निधिः प्राप्तस्ततो महिलापरीक्षणार्थमिदमसंभाव्यं मया तस्याः पुरतः प्रतिपादितं, यदीयमिदं रहस्यं धारयिष्यति तदा निधिलाभमस्या निवेदयिष्यामि इति मत्वानेनेति । एवं च सद्भावे निवेदिते राज्ञा तस्य निधिः । पुनरनुज्ञात इति ॥८५।।
।।१२०।।