SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ।। ११९ ।। भागवतियां दर्यां प्रविष्टः । अन्यस्तु तद्दृष्ट एव पलाय्यान्यत्र गतः । एवं च तस्यात्यन्तमुग्धमतेः शङ्का समुत्पन्ना ; - यदयमेकः सरटो नोपलभ्यते तन्नूनं ममापानरन्ध्रेणोदरं प्रविष्टः इत्येवं शङ्कावशेन 'वाहि'त्ति व्याधिस्तस्याभूदुदरे । निवेदितं च तेन तथाविधवैद्याय यथा ममायं वृत्तान्तः संपन्नः । वैद्य ेनापि प्रतिपादितः - 'यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमि' इति। अभ्युपगतं चैतत्तेन । ततो वैद्य ेन 'लाक्षारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रक्षिप्य विरेचकौषधप्रयेोगेण पुरीषोत्सर्गमसी कारितस्तत्र । ततः 'दंसणावगमो' इति पुरीषवेगाहतसरस्य घटान्निर्गतस्य दर्शनेऽपगमो विनाशः संपन्नो व्याधेरिति । अत्रैव मतान्तरमाह । अन्ये आचार्या एवं ब्रुवन्ति - 'तब्वन्निगचेल्लणाण पुच्छा' इति तृतीयवर्णिकः शाक्यभिक्षुः क्षुल्लकश्च लघुश्वेताम्बरव्रती तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लकेन पुरुषादि इति किमयं पुरुषः उत स्त्रीत्युत्तरं दत्तम् । अयमत्र भावः - क्वचित् प्रदेशे केनापि शाक्यभिक्षुणा सरटो नानाविकारैः शिरश्चालयन्नुपलब्धः । तदनु कथंचित् तत्प्रदेशे समागतः क्षुल्लकः । तेन सोपहासमेवं पृष्टः- “भो भोः क्षुल्लक, सर्वज्ञपुत्रकस्त्वं, तत्कथय किं निमित्तमेष सरटः शिरो धूनयत्येवं ?” तदनु तत्क्षणौत्पत्तिकी बुद्धिसहायः क्षुल्लकस्तस्यैवत्तरं दत्तवान्, यथा-"भो भोः शाक्य व्रतिन्नाकर्णय - अयं सरटो भवन्तमालोक्य चिन्ताक्रान्तमानसः सन्नूर्ध्वमधश्च निभालयति किं भवान् भिक्षुरुपरि कूर्चदर्शनात् उत भिक्षुकी लम्बशा टकदर्शनादिति ॥ ८४ ॥ । er संखे वंचि विणायड सट्ठि ऊण पवासाई । अण्णे घरिणिपरिच्छा णिहिफुट्टे रायगुण्णाओ ॥ ८५ ॥ 'काक' इति द्वारपरामर्शः संखे वंचिय'त्ति संख्याप्रमाणं एवमेव प्राच्यकज्ञाते इव रक्तपटेन क्षुल्लकः पृष्टः, यथा - 'विन्नाय - ।। ११९ ।।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy