________________
'सरट
श्रीउपदेशपदे
'काक
।११८।।
पड जुण्णादंगोहलि वच्चय ववहार सीसओलिहणा । अण्णे जायाकत्तण तदण्णसंसणा जाणं ॥८॥
'पट' इति द्वारपरामर्शः । 'जुन्नादंगोहलि'त्ति-किल कौचित् द्वौ पुरुषौ, तयोरेकस्य जीर्णः पटोऽन्यस्य चादिशब्दादितरः प्रावरणरूपतया वर्त्तते। तौ च क्वचिन्नद्यादिस्थाने समकालमेवाङ्गावक्षालं कर्तुमारब्धौ । तदेवं मुक्तौ पटौ । 'वचय'त्ति तयोर्जीर्णपटस्वामिना लोभेन विपर्ययो व्यत्यासश्चके नूतनपटमादाय प्रस्थित इत्यर्थः । द्वितीयश्च तं निजं पटं याचितुमारब्धः । अवलप्तश्चानेन । संपन्नश्च तयो राजभवनद्वारे कारणिकपुरुषसमीपे व्यवहारः । (ग्रं० २०००) कारणिकैश्च किमत्र तत्त्वमित्यजानद्भिः 'सीसओलिहणा' इति शीर्षयोस्तन्मस्तकयो कङ्कतकेन अवलेखना पररोमलाभार्थं कृता । लब्धानि च रोमाणि । ततस्तदनुमानेन यो यस्य स तस्य वितीर्ण इति कारणिकानामौत्पत्तिकी बुद्धिरिति । अत्र, मतान्तरमाह;-अन्ये आचार्या ब्रुवते, 'जाया कत्तण'त्ति तौ पुरुषौ कारणिकैः पृष्टौ गथा केनतौ भवतोः पटौ. कत्तितौ ? प्राहतुः-निजनिजजायाभ्याम् । ततो द्वयोरपि जाये कर्त्तनं कारिते । ततस्तदन्यसंदर्शनाद् व्यत्ययेन सूत्रकर्त्तनापलम्भाज्ज्ञानं निश्चयः कारणिकानां संपन्नो, वितीर्णश्च यो यस्य तस्येति ।।८३।। __अथ सरडेत्ति द्वार;सरडहिगरणे सन्नावोसिरदरि वाहि दसणावगमो। अण्णे तव्वण्णिगचेल्लणाण पुच्छाइ पुरिसादी ॥८४॥ __इह किल कश्चिद्वणिक् क्वचिद् बहुरन्ध्रायां भुवि पुरीषमुत्स्रष्टुमारब्धः। तत्र च दैवसंयोगात् 'सरडहिंगरणे' इति द्वयोः सरटयोरधिकरणं युद्धमभूत्। तत्र चैकः 'सन्नावोसिरदरि'त्ति संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोट्य तदधो