________________
११७ ।।
****
तमवगूहेइ ||५८ || पुट्ठो कत्थ तुहंबा ? सो भणई देव ! नयरबाहिम्मि । चलिओ सपरियरों तप्पवेस ओ राया ।। ५९ ।। विन्नायवइयराए नंदाए मंडिओ तओ अप्पा । अभएणं सा विनिवारिया य ना अंब ! जुत्तमिणं ।। ६० ।। पइविरहियाउ सुकुलुग्गमाउ रामाउ जेण नेवत्थं । अच्चुब्भडं न गिण्हंति किंतु सुपसत्थमेव त्ति ।। ६१ ।। ता तक्खणाउ तीए वयणं पुत्तस्स मन्नमाणीए । गहिओ सा यि वेसा जो पुव्वि आसि परिभुत्तो ||६२|| संपाडिय पवरमहं ऊसियणाणापडायरेहिलं । अभओ रन्ना नयरं पवेसिओ जणणिसंजुत्तो ||६३ || लद्धो पवरपसाओ ठविओ सव्वेसि उवरि मंतीणं । उप्पत्तियबुद्धिगुणेण एस एवं सुही जाओ ||६४ ।। इति ।। अथ संग्रहगाथाक्षरार्थः - ' खड्डग 'त्ति द्वारपरामर्श: । 'मंतिपरिच्छा' इति मन्त्रिणः परीक्षायां प्रकान्तायां अभया दृष्टान्तः । कथमयं जात इत्याह- 'सेणियगम' त्ति श्रेणिकस्य कुमारावस्थायां पित्रावज्ञातस्य विन्नातटे गमो गमनमभूत् । 'सुमिण सेट्ठिनंदभए' इति तत्र चैकेन श्रेष्ठिना निशि स्वप्नो दृष्टो यथा रत्नाकरो मद्गृहमागतः । ततस्तेन नन्दाभिधाना दुहिता तस्मै दत्ता । तस्यां चासावभयकुमारं पुत्रमजीजनत् । प्रस्तावे च श्रेणिकः स्वराज्यं गतः । अभयकुमारोऽपि समये स्वजननीं बहिर्व्यवस्थाप्य राजगृहं प्रविशन् सन् 'मुद्दाकूव'त्ति मुद्रां खड्डुकमङ्गुलीयकमित्यर्थः कूपे पतितं ददर्श, लोकं च पप्रच्छ । स चावोचत् - यस्तटस्थित इदमादत्ते तस्मै राजा महान्तं प्रसादमाधत्ते इति । तताऽभयकुमारेण 'छाणुगत छगणको गोमयस्तदुपरि प्रक्षिप्तः, उदकं च प्रवेशितम् । ततः कथानकेाक्तक्रमेण गृहीतं तत् । दृष्टः । तदनु 'जणणीपवेसणया' इति जनन्या अभयकुमारसवित्र्याः प्रवेशनं नगरे कृतं राज्ञा इति ॥८२॥
राज्ञा च
।। ११७ ।।