________________
श्रीउपदेशपदे०
। ११२ ।।
द्यूतकारा एव भवन्तीति तानेवावलगामि । तथैव च कृतं तेन । पृष्टश्चासौ तैः, यथा - भद्रक ! किमर्थमस्मान्निरन्तरमासेवसे त्वं ? भणितं च तेन, यथा-ममैवंविधं व्यसन मायातमिति । ततो 'भुयंग दारे अनिप्फेडो' इति भुजङ्गेद्यूतकारैरसावेवं शिक्षितो यथा पूतिकापणे मुष्टिप्रमाणमेकं मोदकं गृहीत्वा तद्धूर्तसहायः शेषनगरलोकसहायश्च प्रतोलीद्वारे गत्वा इन्द्रकीलस्थाने तं विमुच्य प्रतिपादय यथा निर्गच्छ भो मोदक ! इति । विहितं च तेनैवं परं द्वारे मोदक - स्य अप्फेिडो निष्काशनाभावः संपन्नः । प्रतिजितश्वासौ तेन । एवं च द्यूतकाराणामत्पत्ति की बुद्धिरिति ||८०|| अथ रुक्खे इति द्वारम् ;
रुक्खे फलपडिबंधो वाणरएहि तु लेट्टुफलखेवो । अण्णे अभरकणिज्जा इमे फला पंथवहणाओ ॥८१॥
'रुक्खे' इति द्वारपरामर्शः । फलानां गृह्यमाणानां प्रतिबन्धः प्रतिस्खलना । केभ्य इत्याह-वानरकेभ्यस्तु कपिभ्य एव । इदमुक्तं भवति-क्वचित् पथि फलप्राग्भारनम्रशाखासंभारः कश्चिदाम्रादिर्महाद्रुमः समस्ति । तत्समीपेन च निरन्तरं तत्तत्प्रयोजनाक्षिप्तः पथिकलाको गच्छन्नागच्छंश्च पक्वान्यवलोक्य तत्फलानि बुभुक्षाक्षामकुक्षितया गृहीतुमारभते। परं तच्छाखासमारूढातिचपलकपिकुलेन प्रतिस्खलिता न तानि गृहीतुं शक्नोति 'लेट्ठफलखेवो'त्ति-अन्यदा च . केनचिन्निपुणबुद्धिना पथिकेन लेष्टक्षेपः कृतो मर्कटाभिमुखं तदनु कोपावेगव्याकुलीकृतमान सैस्तैस्तत्प्रतिघाताय तानि फलानि क्षिप्तानि । एवं च परिपूर्णमनोरथः समजनि पथिकः । इति तस्योत्पत्तिकी बुद्धिरिति । अत्रैव मतान्तरमाहअन्ये आचार्या वृक्षद्वारमित्थं व्याख्यान्ति यथा कैश्चित्पथिकैः क्वापि प्रदेशे केनाप्यनुपजीवितफलान् वृक्षानालोक्य
'१णिय' द्वारम्
।। ११२ ।।