________________
EXXXKKKkki
।।१११॥
KI दुग्धे मलिनं प्रमाष्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ॥११॥ उदन्वच्छन्ना भूः स च निधि
रपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञन्मेषः पुनरसमसीमा विजयते ॥२॥" इति ॥७९।। ।।१।।
व्याख्यातं सप्रपञ्चं भरहसिलेत्ति द्वारम् । अथ पणियत्ति द्वारम् ;
पणिए पभूतलोमसि भक्खणजय दारणिप्फिडगमोए। चक्खण खद्धा विक्कय भयंग दारे अणिप्फेडो ॥८॥ ___'पणिए' इति द्वारपरामर्शः । कश्चिद् ग्रामेयकः स्वभावत एव मुग्धबुद्धिः क्वचिन्नगरे धूर्तलोकबहुले 'बहूयलो-18 मसि'त्ति बहुकाः शकटभरप्रमाणा लोमसिकाः कर्कटिकाः समादाय विक्रयार्थं गतवान् । तासु च विपणिपथावतारितासु केनचिद्भुर्तेन स उक्तः, यथा-'भक्खणजय'त्ति यदि कश्चिदेताः सर्वा भक्षयति तदा त्वं किं तेन जीयसे? तेन चासंभाव्योऽयमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निबद्ध, यथा 'दारणिप्फिडगमोए' इति यो नगरद्वारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि । ततस्तेन तल्लोमसिकाशकटमारुह्य 'चक्खण'त्ति दन्तनिर्भेदमात्रेण 'खद्ध'त्ति सर्वासामपि तासां भक्षणं कृतम् । 'विक्कय'त्ति विक्रेतुमारब्धश्चासौ ताः, नच लोको गृह्णाति भक्षिताः केनाप्येताः' इति प्रवदन् सन् । ततो धूर्तेन लोकप्रवादसहायेन जितो ग्रामेयकः । तदनु तं मोदकं याचितुमारब्धः। ग्रामेयकश्च अशक्यदानोऽयं मोदक इति कृत्वा तस्य रूपकं प्रयच्छति, स नेच्छति, एवं द्वे त्रीणि यावच्छतमपि नेच्छत्यसौ। चिन्तितं च ग्रामेयकेण-नैतस्माद्धर्त्तान्मम कथंचिन्मुक्तिरस्ति इति निपुणबुद्धिपरिच्छेद्योयं व्यवहारः, 'चतुरबुद्धयश्च प्रायो
kkkkkkkkXXXXXX**********
११११।।
XXXXXXXXXXXX