________________
श्री उपदेशपदे
११० ।।
भिर्गवा च यन्मोचनं तन्महत्तीर्थमिति पूर्वमुनयो व्याहरन्ति” इति प्रज्ञप्ते उज्जयिनीराजबलेन रोहक प्रयुक्तेन बलघातिना पल्लिसंबन्धिनीषु गोषु गृहीतासु तन्मोचनाय पल्लीभिल्लेषु निर्गतेषु शून्यासु पल्लीषु ततो घाटी निपातिता । बहिर्निर्गताश्च ते गृहिता इति ।। ७७ ।।
ततः
वीसासाणण पुच्छा सिद्धं हियएणमप्पमत्तो उ । तह धम्मिगेा सपुण्णो अभओ परचित्तनाणी य ||७८ ||
विश्वासानयने सर्वेषां सामन्त महामात्यादीनामात्मविषये विश्वासे समुत्पादिते सति रोहण, पृच्छा राज्ञा तेषां कृता, यथा - कीदृशो रोहको भवतां चित्ते वर्त्तत इति ? तैश्च शिष्टं हृदयेन भावसारमित्यर्थ यथा देव ! एकान्तेनैव देवकायॆष्वप्रमत्तस्त्वप्रमत्त एव । तथा शब्दः समुच्चये, धार्मिकः स्वपक्षपरपक्षयेारप्यनुपद्रवकरः । सपुण्यः पुण्यवान् । अभया निर्भया निःशङ्कं विपक्षमध्ये प्रवेशात् । परचित्तज्ञानी च अन्यानध्यवसेय पराभिप्राय परिज्ञानवांश्र्व ॥ ७८||
तुट्ठो राया सव्वे समुवरि मंतीण ठाविओ एसो । परिपालियं च विहिणा तं बुद्धिगुणेण एएणं ॥ ७९ ॥ एवं तस्य विचित्रैवित्रीयितविद्वज्जनमानसैश्चरितैस्तुष्ट आक्षिप्तचेता राजा जितशत्रुः संपन्नः । ततस्तेन सर्वेषामेकोनपञ्चशतप्रमाणानामुवरि अग्रेसरतया सिरसि नायकत्वेनेत्यर्थः, मन्त्रिणाममात्यानां स्थापितः प्रतिष्ठितः एष रोहकः । परिपालितं च निष्ठां नीतं पुनर्विधिना स्वावस्थौचित्यरूपेण मन्मन्त्रिनायकत्वं बुद्धिगुणेन औत्पत्तिकीनामकमतिसामर्थ्येन करणभूतेन एतेन रोहण, सर्वगुणेषु बुद्धिगुणातिशायित्वात् । यतः पठ्यते ; – “श्रियः प्रसूते विपदो रुद्ध
रोहकबुद्धे8 रंतिमपरी.
*****:
।। ११० ।।