________________
।। १०९ ।
****
पुनः कोपः कृतः ॥ ७५ ॥
धम्मो मे हारविओ काऊणन्नतणओ तओ दिण्णो। कह होइ मज्झ एसो जह तुह तणओ उ तस्सेव ॥७६॥
ततो रोहणाभ्यधायि - किमर्थमस्मान्निरपराधानपि प्रतीत्य देवेन इयान् कोपः कृत इति । तत्रोक्तं पृथिवीपतिना ‘धम्मो मे हारविओ काऊण' ति धर्मो मम हि यस्त्वया हारित इति कृत्वा ततो रोहकेणान्यसत्को महर्षेः कस्यचित् संबन्धी तको धर्मो दत्तो राज्ञे । अयमभिप्रायः - देव! यदि मया दत्तो धर्मस्त्वदीयोऽन्यंत्र प्रयाति, तदाऽनेन महर्षिणा आबालकालाद् यदनुष्ठितो धर्मः स मया तुभ्यं वितीर्ण इति नास्ति मयि कोपस्यावकाशः प्रभोः । राजा; - कथं भवति मम एष धर्मो महर्षिसत्को यतो मया न कुतो नापि कारित इति ? रोहकः ; यथा तवतनकस्त्वत्संबन्धी ' पुनधर्म: तस्यैव विपक्षभूपतेरभून्मया वितीर्णः सन्निति ।। ७६ ।।
जीवदा पेसण- तदण्णवग्गहगहाण, तेसि तु । अपुत्तग्गह गोग्गहनिमित्ततित्थं तओ धाडी || ७७।।
ततः सुप्रसन्नमानसेन जितशत्रुणा रोहकाय जीवनदाने परिपूर्णनिर्वाहस्थान वितरणे कृते सति 'पेसण 'त्ति प्रेषणं कृतं रोहकस्यैव । किमर्थमित्याह - 'तयन्नवुग्गहगहाण 'त्ति व्युद्ग्रहे विवादे कुतोऽपि हेतोरुत्पन्ने सति ग्रहो लोकप्रसिद्ध एव उज्जयिनीविषयमध्यवर्त्तिनो द्विपदचतुष्पदादेरर्थस्य येषां ते व्युद्ग्रहग्रहाः पर्वतवनादिव्यवस्थितपल्लिवासिनो लोकास्तस्मान्नृपादन्ये च तदन्ये ते च व्युद्ग्रहग्रहाच तदन्यव्युद्ग्रहग्रहास्तेषां संग्रहनिमित्तमिति गम्यते । यदा च ते सुखेन संग्रहीतुं न शक्यन्ते तदा तेषां तु संग्रहनिमित्तं पुनरपुत्रग्रहगोग्रहनिमित्ततीर्थं प्रज्ञप्तमिति गम्यते, यथा - " अपुत्रस्य गृहीतस्य शत्रु
॥१०९॥