SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ||१०७॥ RXXXXXXXXXXXXXXXXXXXXXXX तया चतुर्थदिवसे तस्य पूजायां कृतायां मनोहरतदाकारा क्षिप्तचित्तया यः स्पर्शस्तस्यैव सर्वाङ्गमालिङ्गनं तेन २, ,चंडालरयगदसण'त्ति चण्डालरजकयोः ऋतुस्नाताया एव तथाविधप्रघट्टकवशाद्दर्शनमवलोकनं मनासंयोगाभिलाषश्च मे संपन्न इति तावपि पितरौ ३-४, 'विच्चुगमरहस्सभक्खणया' इति अत्र मकारोऽलाक्षणिकः ततो वृश्चिको रहस्यभक्षणेन रह एकान्तस्तत्र भवं रहस्यं तच्च तद्भक्षणं च तेन जनक: संपन्नः। मम हि पुत्र ! त्वय्युदरगते वृश्चिकभक्षणदोहदः सम-2 जनि । संपादितश्चासौ रहसि कणिकामयस्य तस्य भक्षणेनेत्यसावपि मनाग् जनकत्वमापन्नः ।।७३।। कारणपुच्छा, रज्जं णाएणं दाणरोसदंडेहि । कबिच्छिवणा य तहा रायादीणं सुतोसित्ति ।।७४।। एवं जनकसंख्यासंवादे संपन्नविस्मयेन राज्ञा कारणगोचरा पृच्छा कृता, यथा केन कारणेन त्वयाऽयमर्थोऽत्यन्तनिपुणधियामपि बुद्धे रगोचरो ज्ञात इति ? । रोहकः,-राज्यं प्रतीतरूपमेव न्यायेन नीत्या सामादिप्रयोगरूपया यत् परिपालयसि, तथा दानरोषदण्डैर्दानेन कृपणादिजनस्वविभववितरणरूपेण कुबेरधनत्यागानुकारिणा, रोषेण क्वचिदविनयवत्तिनि जने चण्डालचाण्डिक्यकल्पेनासहिष्णुतालक्षणेन, दण्डेन पूर्वराजनिरूपितनीतिपथप्रमाथिनो जनस्य सर्वस्वापहा- *।।१०७।। ररूपेण वस्त्रशोधकविधीयमानवस्त्रक्षालनतुल्येन, 'कम्बिच्छिवणा य'त्ति कम्बिकाच्छोपनाच्च कम्बिकया लीलायष्टया पुनः पुनर्मम विघट्टनाच, तथाशब्द उक्तसमुच्चये, राजादीनां सुतोऽसि त्वं हे राजनिति । नयेनैवंविधप्राज्यराज्यपरिपालनाज़्ज्ञायसे यथा राजपुत्रस्त्वम्, न हि अराजजाता एवंविधानवद्यराज्यभारधुराधरणधौरेया भवितुमर्हन्ति । एवं दानेन धनदजातः, रोषेण चण्डालपुत्रः, दण्डेन वस्त्रशोधकप्रसूतः, कम्बिकाघातेन च वृश्चिकापत्यम्, कारणस्वरूपानुकारित्वात् ।
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy