________________
1१०५॥
हि मम तव पादान्तिकस्थस्य देव शयनावकाश: ?" राजा,--यदि जागर्षि तर्हि कृतालापस्यापि मम झगिति किमिति नोत्तरं दत्तं त्वयेति ? रोहकः,--देव? चिन्तया व्याकुलीकृतत्वात् । राजा,--किं चिन्तयसि ? रोहकः,-- 'अइयालिडियवट्टयं' ति अजिकानां छगलिकानां या लिण्डिकाः पुरीषगालिरूपास्तासां वृत्ततां वर्तुलभावं चिन्तयामि । राजा,-सा वृत्तता कुतो निमित्तादिति निवेदयतु भवानेव । रोहकः,-देव ज्वलनादुदरवैश्वानरात् । स हि तासामुदरे ज्वलस्तथाविधवातसहाय उपजीवितमाहारं खण्डशो विधाय तावत्तत्रैवोदरमध्ये लोलयति यावत् सुपक्वाः सवृत्ताश्च पुरीषगोलिका: संपन्ना इति ।।६९।।१०॥ एवं पुणोवि पुच्छा आसोत्थपत्तपुच्छाण किं दोहं ? । कि तत्तमित्थ दोष्णिवि, पायं तुल्लाणि उ हवंति ॥७०॥
प्रथमप्रहरपर्यवसाने इव द्वितीययामान्ते पुनरपि कम्बिकास्पर्शद्वारेण प्रतिबोध्य तं, राज्ञा पृच्छा कुता, यथा-किं | चितयसीति? रोहकः,-'आसोत्थपत्तपुच्छाण किं दीहं' इति अश्वत्थः पिष्पलस्तत्पत्रस्य तत्पुच्छस्य च किं दीर्घमिति । राजा,-किं तत्त्वमति कथयतु भवानेव । रोहकः,द्वे अपि प्रायो बाहुल्येन तुल्ये एव भवतः । प्रायोग्रहणं कस्यचित् कदाचित् किंचिदतुल्यभावेऽपि न विरोध इति ख्यापनार्थम् । इयं च गाथा प्रथमार्द्ध पंचमात्रसप्तमांशा एव "बहुला विचित्रा" इति वचनान्न दुष्यति बहुलेति पंचमात्रगणयुक्ता इति ॥७०।।११॥ एवं पुणोवि पुच्छा खाडहिलाकिण्हसुक्करेहाण । का बहुगा का तुल्ला ? पुच्छसरीराणमन्ने उ ॥७१॥
एवं पुनरपि तृतीयप्रहरान्ते पृच्छा पूर्ववत् । रोहक:-खाडहिलायाः खिल्लहडिकेति लोकप्रसिद्धनामकस्य भुजपरिस
ININNERMINA
॥१०५