________________
श्रोउपदेशपदे
।। १०४ ।।
“प्रियवाक्योच्चारणं मनोहरेण स्वरेण मधुरगम्भीरध्वनिना कृतमिति ॥ ६७ ॥
चटुपाठमेव दर्शयति ;
गंधव्वमुरववसद्दो मा सुव्वउ तुह नरिंद ! भवणम्मि । चकम्मंतविलासिणिखलं तपयणेउ र रवेण || ६८ ||
गन्धर्वस्य गीतस्य मुरवस्य च मृदङ्गस्य शब्दो ध्वनिर्मा श्रूयतां समाकर्ण्यतां केनापि कृतावधानेनापि तव भवतः हे नरेन्द्र राजन् ! भवने प्रासादे एवमुच्चरिते राजा यावत् किंचित् सवितर्कमनाः संजातस्तावदनेन झगित्येव लब्धराजाभिप्रायेण पठितम् - चङ्क्रमतीनां कुटिलगत्या भृशं संचरन्तीनां विलासिनीनां स्खलन्तो विसंस्थुलभावभाजी ये पदाः पादास्तेषु यानि नूपुराणि तेषां यो रवः शिजितलक्षणस्तेन चक्रमद्विलासिनीस्खलत्पदनूपुररवेण । व्याजस्तुतिनामकोऽयमलंकारः ||६८ ||
सक्कारंतियसोवणविउद्धनिवकंबिपुच्छजग्गामि । किं चितिसि अइयालिडिवट्टयं सा कुतो जलणा ॥ ६९ ॥
एवं च रोहण पठिते तुटमना नरनाथः 'सकारंतियसेावण'त्ति सत्कारं वस्त्रपुष्पभाजनादिप्रदानरूपं तस्य चकार । रात्रिवृत्तान्तोपलम्भनिमित्तमन्तिके स्वस्यैव समीपे स्वप्नं निद्रालाभरूपमनुज्ञातवान् । ततोऽसौ मार्गखेदपरिश्रान्ततया प्रथमयामिन्यामेव निर्भरनिद्राभाक् संपन्नः । ' विउद्धनिवकंबि' त्ति प्रथमयामिनीयामान्ते च तदुत्त रदानकृतकौतुकेन विबुद्धेन कृतनिद्रामोक्षेण नृपेणाविबुध्यमानोऽसौ कंबिकया लीलायष्टिरूपया स्पृष्टः, तदनु 'पूच्छ' त्ति जागरितश्च सन् पृष्टः "कि स्वपिसि त्वमिति" स च किल निद्रापराधभीरुतया प्राह-- "जागमि, को
प्राभृतादिकरणं
।। १०४ ।।