________________
।। १०३ ।।
मावास्यासंधिरग्रेतनपक्षात्यन्तसन्निधानलक्षणस्तस्मिन् संप्राप्त इति योगः । एवं च किल तेन पक्षद्वयं परिहृतं भवति । संध्यायामादित्यास्तमयलक्षणायाम्, अनेन दिनरात्रिपरिहारः । चक्रमध्यभूम्या चक्रयोर्गन्त्री संबन्धिनोर्गच्छतोर्या मध्यभूमिः प्रसिद्धरूपा तथा एतेनापथमार्गपरिवर्जनम् । सो हि न पन्था नाप्युत्पथः । तथा 'एडकगायणंगोहलि च काऊण'त्ति एडकादिना एडकेन आदिशब्दाद्दिनावसानसंभूतात पेन चालनिकाछत्रेण चोपलक्षितः सन् । अनेन यान चलन योश्छायोष्णयेाः छत्रनभसोश्च परिहारो विहितः । अंगोहलिमङ्गावक्षालनम्, चः समुच्चये, कृत्वा विधाय सर्वाङ्गप्रक्षालने हि स्नानमिति लोकरूढिः शिरःप्रक्षालनपरिहारेण चाङ्गावक्षालनम् । ततोऽङ्गावक्षालनमात्रे कृते न स्नातो नापि मलिनकः संप्राप्तो राजभवनद्वारे ||६६ ॥
राजभवनद्वारप्राप्तेन च तेन " कथं रिक्तहस्तो राजानं द्रक्ष्यामि यत इत्थं नीतिविद्वचनम् ; - रिक्तहस्तो न पश्येत राजानं दैवतं गुरुम्” इति । न च नटानामस्माकमन्यत् पुष्पफलादि राजोपनयनयोग्यं मङ्गलभूतं किंचिदस्तीति विचिन्त्य --
पुढवीदरिसणविउलंजलीइ होतुं नरिदवंदणया । आसणदाणावसरे चडुपाढो मणहरसरेण ॥ ६७॥
'पुढवीदरिसण 'त्ति पृथिव्याः कुमारमृत्तिकालक्षणाया दर्शनं पश्यतः सतो राज्ञः प्रयोजनं विपुलाञ्जलिस्थितायाः तेन कृतम् । 'घेत्तुं नरिंदवंदणया' इति ततो गृहीत्वा करेण नरेन्द्रेण वन्दना प्रणामः कृतो मृत्तिकायाः । तदनन्तरं च प्रणामादिकायामुचितप्रतिपत्तौ विहितायां सत्यां रोहकस्यासनदानस्य विष्टरवितरणस्यावसरे प्रस्तावे रोहण चटुपाठः
।। १०३ ।।