SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रोउपदेशपदे । १०२।। एवमादि शिलामण्डपसंपादनप्रभृति रोहकात्सकाशादिदं पूर्वोक्त कार्य संपन्नमित्येवं ज्ञात्वा आज्ञापयत्यादिशति राजा स्वसमीपा नयनार्थजितशत्रुः । कथमित्याह-आगच्छतु मम समीपे स रोहकः शीघ्रमविलम्बमेव, परं परिवर्जयन् परिहरन्निमानि स्था तृप्राज्ञी नानि एतानर्थानित्यर्थः ॥६४।। तान्येवाह ;पक्खदुर्ग दिणराई छाउण्हे छत्तणह पहुम्मग्गे । जाणचलणे य तह ण्हणमइलगो अण्णहागच्छ ॥६५॥ पक्षद्विकं शुक्लकृष्णपक्षद्वयलक्षणं, दिनरात्री प्रतीतरूपे, छायोष्णौ छायामातपाभावरूपामुष्णं च चण्डकरकिरणलक्षणं, छत्रनभसी छत्रमातपवारणं नभश्च शुद्धमाकाशं, तथा पन्था मार्ग उन्मार्गश्चोत्पथः, मार्गमुन्मार्ग च परिहत्येत्यर्थः, यानचलने च यानं गन्त्र्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहृत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मलाविलकलेवरश्च सन्नित्यर्थः । अन्यथा पक्षद्वयादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति ।।५।। ततोऽसौ रोहक एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागन्तु प्रारब्धः यथा; ॥१०२॥ अमवस्सासंधीए संझाए चक्कमज्झभूमीए। एडक्कगाईगंगोहलि च काऊण संपत्तो ॥६६॥ इह चन्द्रमासस्य द्वौ पक्षौ, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः । तत्र च कृष्णपक्षोऽमावास्यापर्यन्तः, शुक्लश्च पौर्णमासीपरिनिष्ठितः । एवं चामावास्या पक्षसंधितया व्यवह्रियते । पौर्णमासी च माससंधितया ततोऽमावास्यैव संधिर
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy