________________
॥१०१॥
धिनी सुंदक्षामेकां, तेन तदनुमार्गलग्नोऽसावस्मदीयकूपः पुरी समभ्येतीति अनेन प्रकारेण निवर्त्तनमस्या आज्ञायाः । यथा न राजा कूपिकां प्रेषयितुं फ्टुस्तथा तेऽपि स्वकमवटमित्यनपराधतैव तेषामिति भावः ॥६१॥७॥
गामावरवणसंडं पुवं कुणहत्ति मीयय इमं तु । तत्तोऽवरेण ठवणं तेण निवेसेण गामस्स ॥२॥
ततः ग्रामादपरस्यां दिशि यो वनषण्डस्तं पूर्व पूर्वदिग्भागवत्तिनं ग्रामात् कुरुत । इत्येवंरूपायामस्यां च नपाज्ञायां पुनः इदं त्विदमेव वक्ष्यमाणलक्षणमुत्तरं तैः कृतम्, यथा, ततो वनषण्डादपरेण पश्चिमायां दिशि स्थापनं - कृतं तेन निवेशेनैवाकारेणेत्यर्थो ग्रामस्य । एवं हि कृते पूर्वेण वनषण्डो ग्रामात्, अपरेण ग्रामश्च वनषण्डात्र संपन्नः ॥६२।।८।।
अग्गि सूरं च विणा चाउलखीरेहिं पायसं कुणह । आदेसे संपाडणमुक्क रुडुम्हाइ एयस्स ॥६३॥ _अग्नि वैश्वानरं सूरं चादित्यं विना अन्तरेण 'चाउलखीरेहि'ति चाउलक्षीरैः चाउलस्तण्डुलः क्षीरेण च पयसा पायसं परमान्नं कुरुत । अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतम् । कथमित्याह-उत्कुरुटिकोष्मणा उत्कुरुटिका नाम बहुकालसंमिलितगोमयादिकचवरपुञ्जस्तस्योष्मा उष्णस्पर्शलक्षणस्तेन एतस्यादेशस्य । रोहकादिष्टैस्तैनिबिडं मृण्मयभाजनं मध्यनिक्षिप्तसमुचिततन्दुलदुग्धं विधायागाधे उत्कुरुटिकाक्षेत्रे निक्षिप्तम् । ततः कतिपयप्रहरपर्यन्ते सुपक्वं पायसं संजातं राज्ञश्च निवेदितमिति ॥६३।।९।।
एमाइ रोहगाओ इमं ति नाऊण आणवे राया । आगच्छउ सो सिग्धं परिवज्जतो इमे थाने ॥६४॥
॥१०१॥