________________
श्रीउपदेशपदे |
॥१००।
RXXXXXXXX
भवति कुत्रापि इति भणत यूयमेव ग्राम्याः। ततो रोहकशिक्षितैरेव तैरुक्तम्, यथेदं वालुकावरहकः कुत्रापि भवति
गजादिदृ० नवेत्येवंरूपं वस्तु जानाति देवः ॥५९॥५॥
अप्पाउहत्थिअप्पण पउत्ति अणिवेयणं च मरणस्त । आहारादिनिरोहा पउत्तिकहणेण पडिभेदो ॥६॥
ततः 'अप्पाउहत्थिअप्पण'त्ति अल्पायुषः पारप्राप्तप्रायप्राणस्य हस्तिनो गजस्यार्पणं ढौकनं तेषां राज्ञा कृतं, इदं * चोक्तं-यथा, प्रयुक्तिर्वार्ता प्रतिदिनमस्य देया, अनिवेदनं चाकथनमेव मरणस्य-एष मतः सन्न कथनीय इत्यर्थः । तथेति प्रतिपन्नमेतत्तैः । अन्यदा च मृतो हस्ती । व्याकुलीभूतश्च ग्रामः । रोहकादेशेन आहारादिनिरोधाद् आहारादिनिरोधमाश्रित्येत्यर्थः, प्रयुक्तिकथनेन प्रतिभेदः प्रत्युत्तरं ग्रामेण कृतम् ;-यथा देव ! युष्मदीयो हस्ती, नो जानीमः किं तत्कारणमद्य नोत्तिष्ठति, न निषीदति, न समर्पितमपि चरणं चरति, जलं च न पिबति, नोच्छ्व सिति, न निःश्वसिति, नाक्षिभ्यां निरीक्षते, न च पुच्छादि चालयतीति । ततो भूमीभुजोक्तम्-किमसौ मृतः ? तैरुक्तम्-एवंविधव्यतिकरे यद्भवति तद्देव एव जानाति, किं वयं ग्रामीणा विद्मः ? ॥६०॥६॥
आणेह सगं अगडं उदगं मिटुंतिमोइ आणाए। आरण्णगोत्ति पेसह-कृवियम्राकरणमितीए ॥६॥ तत आनयत स्वकमवट कूपं अत्र कुतः उदकं जलं तत्कूपसंबन्धि मिष्टं मधुरमित्यस्माद्धेतोः । अत्र हि नगर्यामतिसं
।।१००॥ भारजनवासवशेन क्षालादिरससंक्रमाद्विरसानि कृपजलानीति कृत्वा ग्रामावटानयनमादिष्टं भवतामिति । अस्यामाज्ञायां पतितायां सत्यां तैमियकैः आरण्यकोऽरण्योद्भवोऽज्ञ इत्यर्थ इत्यस्माद्ध तोः प्रेषयत एतदार्षिकां कपिकां नगरीसंब
*******