SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ KXX*****XXXXXX ॥९९।। कटं विनान्तरेण इत्येषा आज्ञा राज्ञा प्रहिता। तत आदर्शके दर्पणे यन्निजमेव प्रतिबिम्बं प्रतिकुक्कुटतया संभावितं तेन तस्य प्रयोगो व्यापारः तेन संपादना घटना आज्ञायाः कृता रोहकेण, नवरं केवलं नान्यप्रयोगेणेत्यर्थः । स हि मुग्धतया निजप्रतिबिम्बमेव प्रतिकुक्कुटतया संभावयन् संपन्नतीव्रमत्सरतया संजातोत्साही युध्यति, न च कथंचिद् भज्यत इति ॥५७।।३।। तिल्लसममाणगहणं तिलाण तत्तो य एस आदेसो। आदरिसगमाणेणं गहणा संपाडणमिमस्स ॥५८॥ तैलसमेन मानेन ग्रहणं तिलानाम्, इदमुक्तं भवति-येन मानेन मदीयानेतांस्तिलान् कश्चिद् गृह्णाति तेनैव तैलमप्यस्य दातव्यम्, आत्मवञ्चना च रक्षणीया ततश्च पूर्वोक्तादेशानन्तरं पुनरेष आदेशः प्रेषितो महीपालेन । रोहकबुद्धया च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानाम्, उपलक्षणत्वात्तैलप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्रामवृद्धैः । आदर्शकेन हि तिलेषु गृह्यमाणेषु दीयमाने च तैले ग्रामेयकाणां न कदाचिदात्मवञ्चना संपद्यते, यदि परं तिलस्वामिनो राज्ञः ॥५८॥४।। ___ वालुगवरहाणत्ती अदिट्ठपुब्वोत्ति देहपडिछंद । कि एस होइ कत्थइ भणह इमं जाणइ देवो ॥५९॥ ततो वालुकावरहस्य सिकतामयवरत्रालक्षणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञा-यथा, वालुकावरहकः कूपसलिलसमुद्धरणार्थमिह प्रेषणीयः, रोहकव्युत्पादितश्च तैर्भणितम्, यथा, अदृष्टपूर्वोऽयमस्माकमीदृशो वरहकः इत्यस्मात्कारणात् दत्त | समर्पयत देव ! यूयं प्रतिच्छन्दं वालुकावरहकप्रतिबिम्बकम् । एवमुक्तो राजा प्रतिभणति यथा-किमेष प्रतिच्छन्दो ।।९९॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy