SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ संप्रत्यवयवार्थः प्रतन्यते ;-तत्र नत्वा प्रणम्य प्रशस्त मनोवाक्कायब्यापारगोचरभावमानीयेति यावत्, महावीरमित्युतरेण योगः । कीदृशमित्याह, भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कुसमुत्खननाय वामचरणामु छकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लङ्घनकारिकायवृद्धः सुरस्य वज्रनिष्ठरमुष्टियूठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रलोक्यसाहारयनिरपेक्षतया प्रव्रज्यानन्त रमेव दिव्याद्य पसगसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाष्टमहाप्रातिहायसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनाहारिणाऽवितथकथापथस्फीतिकारिणा जातिजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्त्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्पादनेन, स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहोमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभूवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याह;-लोक्यते केवलालोकलोचनबलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् ; --"धर्मादीनां वृत्तिव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥" इह तु तदेकदेशोऽप्यूद्ध दिमिकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम्, त्रिलोकस्य लोकत्रयत्तिनो भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं ॥३॥
SR No.600268
Book TitleUpdeshpad Mahagranth Satik Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1989
Total Pages438
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy