________________
श्रीउपदे
शपदे
उपोद्धातमङ्गलादि.
||२|1
इह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पकपङ्कजपुञ्जोज्वलकुलजातिप्रभृतिगणमणिरमणीयताभाजोऽपि तथाविधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरासंपादितसकलमनस्विमानवमनःप्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाप्राप्तनिर्वाणपुरपथानुकूलविषय
वैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलबीजानि अत एवाधरीकृतनिधानकामधेनुप्रमुखपदार्थ। प्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा
भवितुमर्हन्ति । कथंचित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा पायं न उ तद्वियाणं तु ॥” इत्यवधार्य परहिताधाननिबिडनिबद्धबुद्धिर्भगवान सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह,
नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियंक सिद्धं सिद्धोवदेसत्थं ॥१।।
वोच्छं उवएसमए कइइ अहं तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमइविबोहणटाए ॥२॥ ___ इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम्, द्वितीयया तु प्रेक्षावत्प्रवृत्त्यर्थं साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम् । सामर्थ्याच्चाभिधानाभिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संबन्ध उक्त इति समुदायार्थः ।।
॥२॥