________________
॥१॥
अहम् । । तपागच्छशिरोमणि पू. आ. श्रीविजयरामचन्द्रसूरिभ्यो नमः ॥ परहिताधाननिबिडनिबद्धबुद्धिसुगृहीतनामधेयभगवत्-श्रीहरिभद्रसूरिविरचितः
श्रीमन्मुनिचन्द्रसूरिविनिर्मितया टोकया विभूषितः ॥ श्रीउपदेशपद-महाग्रन्थः ॥
नमः श्रीसर्वज्ञाय । यस्योपदेशपदसंपदमापदंतसंपादिका सपदि संघटितश्रियं च ।।
आसाद्य सन्ति भविनः कृतिनः प्रायत्नात् तं वीरमीरितरजस्तमसं प्रणम्य ॥१॥ तत्वामृतोदधीनामानन्दितसकलविबुधहृदयानाम् । उपदेशपदानामहमुपक्रमे विवरणं किंचित् ॥२॥ पूर्वैर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः, कालबलेन तां स्फुटतया बोर्बु यतो न क्षमः । तत्तस्योपकृति विधातुमनधां स्वस्यापि तत्त्वानुगां, प्रीति संतनितुं स्वबोधवचनो यत्नोऽयमास्थीयते ॥३॥
॥१॥