________________
श्रीजैन
कथासंग्रहः
अपराजित कथानकम्।
॥२३॥
. ॥ २७२ ॥ सुतः कीदृक् कृतज्ञोऽयं पदाद्या मातुरर्पिता । रत्नमाला मम परा यौवने कोऽपि नेदृशः
॥ २७३ ॥ यौवने भोगतृष्णार्ताः सुता हि स्युर्वधूमुखाः । पित्रोस्त्वखण्डं विनयं विरला केऽपि कुर्वते ॥२७४॥ इत्यानन्दिततातोऽयं सर्वेषु जिनवेश्मसु। महं च महिमानं च भावशुद्ध्या व्यधापयत् ॥ २७५।। उद्दधार च जीर्णानि जिनवेश्मानि सर्वतः । बहुशो रथयात्राश्चाकारयद्विस्तरेण सः ॥ २७६ ॥
____ अथार्धरात्रे रुदितं स्त्रियः श्रुत्वा नरेन्द्रजः । कृपाणपाणिस्तत्रागात् तत्पृष्ठे च नरेश्वरः ॥ २७७॥ रत्नाभरणसम्भारध्वंसितध्वान्तविस्ताराम् । तामुवाच कुमारश्च गुप्तोऽश्रीषीच्च तत्पिता ।। २७८ ॥ का त्वं रोदिषि कस्माच्च सोचे ख्यातुं न युज्यते । त्वं तु सत्पुरुषो येनोपचिकीर्षुरिहागतः ।। २७९ ॥ तत्तवाख्याम्यहं देवी राज्ञोऽनिष्टाच्च रोदिमि । तत्कीदृगिति तेनोक्ते सोचे सायं विनयति ।। २८०॥ येनास्ति योगिनीवृन्दं निखिलं मिलितं पुरः । आस्फालितडमरुकं कुर्वन् किलकिलारवम् ।। २८१ ॥ तन्मन्त्रसाधनार्थ द्वात्रिंशल्लक्षणधारिणम् । तं होमिष्यन्ति तास्तेन दुःखेनाहं प्ररोदिमि ॥ २८२ ॥ नृरत्नं तदिदं रक्षाम्यहं प्राणैरपिस्वकैः । न किं गृहन्ति मां मर्त्यमेवं लक्षणलक्षितम् ॥ २८३॥ सुलक्षणशरीरस्त्वं दत्से यद्यग्निकुण्डके । झम्पां तदेतद्भूपस्य दुरितं याति दूरतः ।। २८४ ॥ प्रोचे कुमारोऽन्यस्यापि कृते सत्पुरुषा असून् । त्यजन्ति किं पुनर्विश्वबान्धवस्यास्य हेतवे ।। २८५ ॥ यावत्परिकरं बद्ध्वा ध्यात्वा
॥२३॥