SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीजैन . कथासंग्रहः ॥२१॥ मत्वा संस्कार्यमाणं स्वमङ्गं चन्दनदारुभिः । कुमारेणावधेस्तस्यानवधिप्रेमजातवत् ॥ २४७ ॥ दध्यौ च 'कृतवेद्येष निश्यदात्तस्य दर्शनम् । डूचे च मित्र ! मां वेत्सि क्षेत्रेशोऽसीति सोऽवदत् ॥ २४८ ॥ विशेषं तु त्वयाऽऽख्यातं ज्ञास्याम्यथ स आलपत् । त्वत्संसर्गादहं शुद्धभावो देवोऽभवं सखे ! ।। २४९ ।। त्वया संस्कार्यमाणं तद्देहं वीक्ष्यातिहार्द्दत: । आगतोऽस्म्यन्त्र द्वक्षि स्वावासं स्वां ततो नये ।। २५० ॥ तन्मते तमनैषीत्स रत्नकूटाचलं क्षणात् । कपाटांन्स्फाटिकानुद्धाट्य च मध्ये प्रवेशितः ।। २५१ ।। हतध्वान्तान्मणीराशीनपश्यच्च सहस्रशः । लोट्यमानं पदावर्त दिव्यनार्या च कूपतः ।। २५२ ।। क्षेत्राधिपोक्तस्तन्नीरं शर्करास्वादसोदरम् । पपौ कर्पूरपूराभगन्धं केलिं जलेऽप्यधात् ।। २५३ ।। दध्यौ चामृतमेवैतत् श्रीरस्य च नृपाधिका । देवदूष्याण्यदूष्यानि दत्तान्यस्मै सुपर्वणा ।। २५४ ॥ गत्वोद्याने च पुष्पाण्यादाय प्रसादमागतः । रत्नानि जिनबिम्बानि पूजयामासतुर्मुदा ।। २५५ ।। कुमारस्तानि बिम्बाि पूजयित्वा जनुर्निक्रम् । जीवितं च कृतार्थत्वकलितं मतवान्मुदा ॥ २५६ ॥ क्षेत्रेशेन जिनेशाग्रे तस्य दर्शनहेतवे । द्वात्रिंशत्पात्रसम्बद्धं नाटकं प्रकटीकृतम् ॥ २५७ दध्यौ कुमारो नैवास्ति सीमा रम्येषु वस्तुषु । वीते च नाटके प्राह कुमारं क्षेत्रनायकः ।। २५८ ॥ रत्नमालां गृहाणेमामन्यत्कार्यं च ते भवेत् । यत्किञ्चित्तदहं वीक्ष्यस्तत्रोद्याने निशाक्षणे ।। २५९ ।। आदाय रत्नमालां स पुनर्दर्शनमर्थयन् । नीतश्च 10 अपराजित कथानकम् । ॥२१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy