________________
श्रीजैन कथासंग्रहः
112011
गतमुद्यानमायासीत्तस्य सम्मुखः ॥ २३३ ॥ नत्वा कुमारोऽब्जमेकमार्पयत्प्राह भूपतिः । अत्यद्भुतं चरित्रं ते वत्स ! वाचामगोचरम् ।। २३४ ॥ स प्राह सवितुर्दीप्त्या दूरे याति तमो मम। आख्यच्च सर्व वृत्तान्तं नृपो हर्षादुवाह च ।। २३५ ॥ ततो नृपार्पिताश्वाधिरूढोऽयं भूभुजा समम् । सौधमागत्य तैः पद्यैर्मातुः शय्यामसञ्जयत् ।। २३६ ॥ गते च सहसा देहदाहे कीर्तिरकृत्रिमा । प्रससार कुमारस्याभूवन् वर्धापनान्यथ || २३७ || निशश्च पश्चिमे यामे सर्पः स्वप्ने जगाद तम् । तुष्टोऽहं ते त्वयागम्यमुद्याने मम निर्भयम् ॥ २३८॥ फलपुष्पादिकं सर्वमादेयं च यथारुचि । स नित्यमानयत्येकस्ततः पुष्पफलादिकम् ।। २३९ ॥ कृत्वा मालाद्वयं कण्ठे पित्रो रोपयते सदा । ब्रूते चादिश्यतां तन्मे यन्मयापि हि सिध्यते ॥ २४० ॥ तावूचतुर्यदि पुण्यमगण्यं किञ्चिदस्ति नौ । भवे भवेऽपि तद्भूयाद्भवानेवाङ्गसम्भवः ।। २४१ ।। त्वदीयैः सुचरित्रैर्यत्रेत्रस्थमपि हर्षजम् । जलमङ्गानि सर्वाणि शीतलीकुरुते सुत ! ।। २४२ ।। दृग्विषस्तु कुमारेण कुसुमाञ्जलिमोचनात् । क्षीरस्य पायनाद्वापि बाढमावर्जितो हृदि ॥ २४३ ॥
तस्यैवं विनयस्थस्य बहवः शरदो ययुः । अन्यदा शिरसोऽर्त्या स नागमन्नागमक्षमः ॥ २४४ ॥ दुग्धलुब्धस्तु नागृह्णन्नागोऽन्यदशनं न च । कोऽप्युद्याने विशेत्तत्र विनैकमपराजितम् ।। २४५ ।। क्षुधितोऽहस्त्रिकं सोऽस्थात्तुर्येऽह्नि निधनं गतः । क्षेत्रपालोऽभवद्ध्यायन्नवधेर्जन्म सोऽस्मरन् ॥
२४६ ॥
अपराजित कथानकम् ।
112011