________________
श्रीजैन कथासंग्रहः
अपराजित कथानकम्।
॥१९॥
प्रविशेज्जीवन्निर्गच्छेत्कस्ततो वनात् । न च स्वेन परेणापि कार्यमेतत्प्रसाध्यते ॥ २२१ ॥ तदाऽऽयातः कुमारस्तं नतः श्याममुखच्छविम् । वीक्ष्यापृच्छन्नृपोऽप्याख्यदथोवाचापराजितः ॥ २२२॥ चेन्नानयामि पद्यानि तन्नाहं तनयोपि वः । नृपः प्रोवाच दुःखाग्निं मा ज्वालय वदन्निति ॥ २२३ ॥ राज्यश्रीयमनाथां मा कुरु वत्स ! सुतोऽवदत् । जीवन्तं तात ! मन्ये स्वं मातुरातुरताहतेः ।। २२४ ॥ प्राणा भवे भवेऽपि स्युर्न तात ! समयस्त्वयम् । ततो यहुर्लभं तत्र यत्नः कार्यों मनीषिणा॥ २२५॥ प्राणानम्बां ददौ मह्यं तस्यैतांश्चेद्ददाम्यहम्। ततः किञ्चित्कृतं मे स्यादथ दध्यौ धराधिपः ॥ २२६ ।। निर्बन्धो रुचिरो नास्य ध्यात्वेति स्वाङ्गरक्षकान् । शतानि पञ्चशोऽमुञ्चदमुञ्च परिरक्षितुम् ।। २२७ ॥ तेन ते भोजिताः स्निग्धं घृतपूरादिभोजनम् । अतीव तेषु निद्राणेष्वपद्वारेण निर्ययौ ॥ २२८ ॥ विद्युदक्षिप्तकरणाद्वप्रमुल्लङध्य सोऽगमत् । उद्यानस्यान्तिके दध्यौ प्रतीक्षेऽर्कोदयावधि ॥ २२९॥ कुमारसाहसं द्रष्टुमिवोदिते दिवाकरे। स्मरन्पञ्चनमस्कारमुद्यानमविशच्च सः ॥ २३०॥ तदीयपुण्यमाहात्म्यात् दृग्विषो निर्विषोऽभवत् । वनदेवीकेशपाश इव दृष्टश्च तेन सः ॥ २३१ ॥ दीर्घिकायास्ततः पद्यैर्दीर्घपृष्ठः स पूजितः । उक्तं च भगवन्भूयाः प्रसन्नो मे क्षमस्व च ।। २३२ ॥ इत्युक्त्वा यावदुद्यानान्निरगात्तावता नृपः । ज्ञात्वा तं १.शयने।
॥१९॥