________________
WILI
. -. -. IIDIDII
DI
-
-
-
श्रीजैन कथासंग्रहः
UU
अपराजित कथानकम्।
I
L
-I
॥१६॥
-I
I
1
सत्यवचोऽभवत् । विनयं कुर्वते क्वापि पुत्रिका: किमचेतना: ?॥१८४॥ देव एवायमीदृक्षं रूपं मर्येषु नो यतः। ध्यायन्ती व्युदिता ताभ्यां मा सुन्दरि! विकल्पय ।। १८५।। वरोऽयं तुष्टया देव्याऽऽनायितस्तव हेतवे। अपराजितनामायं साथ ह्रीमन्थराभवत् ।। १८६ ।। 'दिष्टिज्ञादिष्टमस्मार्षीन्मयाथ निजमाननम् । निरीक्ष्यार्पित आदर्श पुत्रिके स्थानकं गते ॥ १८७ ।। ततश्च जयसुन्दर्या सकर्पूरं ममार्पितम् । ताम्बूलं कण्ठतो न्यस्ता कण्ठे मे 'वनमालिका ॥ १८८ ॥ ताम्बूलार्द्ध मया दत्त्वा तस्याः कण्ठे स्वकण्ठतः । न्यस्ता मुक्तावली सोचे वेषः परिणयोचितः ॥ १८९ ।। किमेष वो मया ख्याते वृत्तान्ते दिव्यवाससी। आनाय्य सार्पयन्मह्यं मया परिहिते च ते॥१९० ।। तयोचे च सविनयं जनोऽयं निखिलोऽपि वः । ततः कार्य यत्किमपि तदादेश्यमसंशयम्॥१९१ ।। यौष्माकं दर्शनं प्रापि दुष्प्राप्यं यत्प्रसादतः । तां देवीमर्चये गत्वा यद्यादेशः प्रजायते॥१९२॥ स्मित्वा मयोचे सा पूज्या ममापि तव दर्शनात् । सा प्राह यूयं यद्येत कृतार्था तद्भवाम्यहम्॥१९३॥ ततः पुरस्सरस्तस्याश्चलितः सापि पृष्ठतः। कतिचिच्चेटिकायुक्ताश्चेभाद्यं तु बहिः स्थितम् ॥१९४ ॥ मया तया च गत्वाथ बहुद्रव्यैः सुगन्धिभिः । हसन्तीव वदन्तीवार्चिता देवी प्रियङ्करा ॥१९५॥ विज्ञप्ता च मया देवि! त्वया कार्य प्रियङ्करि ! । कुशलं तातपादानां मातुः पुत्र्याश्च १. ज्योतिर्वित् । २. आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला । मध्ये स्थूलकदम्बाब्या वनमालेति कीर्तिता। -
-
-1
I
DIDIDIDIDIDIDIDI. DTDIQDUD
- - - Taalaa
- - -
EEEEE
॥१६॥
-
+