SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१४॥ तत्पादाम्बुजयोर्वेणीमलिश्रेणीमिवादधत् ॥ १६० ॥ प्रमोदेनानुटन्मातुः सर्वाः कञ्चुकसन्धयः । डू नन्दनं पुण्यैर्युवां मे कोटिवत्सरीम् ॥ १६९ ॥ जनं शेषमशेषं च कुमारो वीक्ष्य सादरम् । आसन्नो न्यषदद्राज्ञो नर्मशीर्षः कृताञ्जलिः ॥ १६२ ॥ पित्रोः प्रियाया लोकानां स्मेरैर्नयनवारिजैः । कुमारस्याञ्चिताङ्गस्य' शोभा काप्यद्भुताभवत् ।। १६३ ।। आनखाग्रं शिखाग्रं च कुमारं वीक्ष्य भूपतिः । उवाच स्वागतं वत्स ! स प्रोचे दर्शनेन वः ॥ १६४ ॥ पश्यतां क्व गतोऽसि त्वं कुतश्चागात्तवाद्भुतम् । चरितं भाति मे सोऽथ प्रोवाच रचिताञ्जलिः ॥ १६५ ॥ देवस्यैव प्रसादोऽयं पश्य निम्बोऽपि पूज्यते । जनैर्यत्तस्य सा सम्भावना दिनकृता कृता ॥ १६६ ॥ देवावधार्यतां वीतं सर्व विज्ञपये यथा । क्वापि केनापि नीतोऽहमिति जानामि नादितः ॥ १६७ ॥ प्रातस्त्वाराममध्यस्थप्रासादे सप्तभूमिके । विबुद्धोऽद्राक्षमात्मानं दोलापल्यङ्कशायिनम् ।। १६८ ।। निविश्याहं ततो दध्यौ क्व पुरं मे पिता क्व च । क्वाम्बा च क्वं च सा कन्या क्व में परिजनोऽखिलः ? ।। १६९ ।। स्वप्नोऽयमिन्द्रजालं वा किं वा मेऽसौ मतिभ्रमः । स्वर्गोऽयं नागलोको वा यावद्ध्यायाम्यदो हृदि ॥ १७० ॥ तावद् द्वास्तोरणस्तम्भशीर्षाभ्यां बालिके उभे । अवतीर्णे रत्नमये मम विस्मयदायिके १. प्रशंसिताङ्गस्य । अपराजित कथानकम् । ॥ १४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy