SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः अपराजित कथानकम्। ॥१३॥ सह। अस्फुरच्च शरीरे श्री: 'पुलकेन सह क्षणात् ॥१४८॥ अथ तस्या दृढाश्लेषवामनीभूतवक्षसः । यत्किञ्चन सुखं जातं तत्स्वर्गेऽपि सुदुर्लभम् ॥१४९॥ साक्षीकृत्य तमेवाग्निं ताभ्यां चित्तोत्सवात्ततः । गान्धर्वेण विवाहेन विदधे पाणिपीडनम् ॥१५० ॥ तथा कथञ्चन तयोर्मीलितौ पाणिपल्लवौ। अवियुक्तौ यथाकामकलम्बैः' किलिताविव ॥ १५१॥ साथ प्राह प्रियतम ! पौरलोकेन संयुतौ। मदीयेन च सैन्येन बह्वाक्रन्दपरिश्रमात् ॥१५२ ॥ त्वदीयेन वियोगेन समानेन च कर्मणा।स्तस्तटिन्यास्तटे बाद देवो देवी च दुःखितौ॥१५३॥ कस्याप्यत्र तु नागन्तुमदायि शपपूर्वकम् । निर्विघ्नं प्रस्तुतं कार्य मयाभिलषमाणया ॥ १५४ ॥ तद्वः समुचितं कर्तुं मुदं पित्रोः स्वदर्शनात् । कुमारोऽथ पुरस्कृत्य तामगात्तत्र वित्तमः ॥ १५५ ॥ आगच्छन्तौ च तौ वीक्ष्य जनोऽश्लाघत तत्प्रियाम् । तथाऽऽकर्णयतस्तस्य प्रेम द्विगुणतां गतम्॥१५६ ॥ कुमारमागतं वीक्ष्य प्रतीहारस्तयान्वितम् । राज्ञे व्यज्ञपयत्सोऽपि शीघ्रमेत्य ननाम तम् ॥ १५७ ॥ निरन्तराश्रुधाराभिरारात् पितृपदद्वयम् । असिक्त स तथा तापो यथा मूलाव्यलीयत ॥१५८ ॥ नृपोऽपि तनयं प्रेक्ष्य जातानन्दाश्रुबिन्दुभिः । प्रह्वीचक्रे कुमाराय दातुं मुक्तालतामिव ।। १५९ ।। देवीमायागतां तत्रोत्कण्ठया प्रणनाम सः । १.हर्षेण । २. कामबाणैः । ३. शपथपूर्वकम् । ४. पण्डितप्रवरः । - - - - - ---D - ---III-IIानानानाना. - - - - IDIDIE - ॥१३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy