SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ - श्रीजैन कथासंग्रहः अपराजित कथानकम्। - - ॥१२॥ प्रचक्रमे ॥१३५॥ या पृष्टा भवता साहं कुमारार्थे करोम्यदः। तं नृरत्नं विना तात: कुशली सपरिच्छदः ॥१३६ ॥ वदन्त्येति तया मुक्ते महति क्रन्दितस्वरे । हर्षखेदयुतो दध्यो कुमारो निजमानसे ॥१३७ ॥ कृते मे क्षणदृष्टस्य सुमकोमलयानया । सहसा सर्वमुज्झित्वात्मा तुलाग्रे नियोजितः ॥ १३८ ॥ तत्किञ्चिहुष्करस्यास्याः सुकृतस्य करोम्यहम् । तदस्या न भविष्यामि कदाचन पराङ्मुखः ॥१३९ ॥ इयं चम्पकमालैव लब्धा देवप्रसादतः । अम्लाना प्रेमसौरभ्या सदा वसतु मे हृदि ।। १४०॥ध्यात्वेति 'तामुवाचायं यस्यार्थे मृगलोचने!। करोष्येवं न तं दृष्टमुपलक्षयसेऽपि हि ॥ १४१ ॥ श्रुत्वेत्यस्या विस्मितायाः स्फूर्त्याभूत्सधरोऽधरः । दध्यौ किमेष वक्तीदं किं च स्फुरति मेऽधरः ॥ १४२ ॥ तदा दर्शयितुमिव कुमारमुखकैरवम् । नेत्रनीलोत्पलस्यास्याद्रष्टुं विस्मेरतामिव ॥१४३॥ तापितानि तदङ्गानि सिञ्चन्निव सुधारसैः। सुधारुचिरुदियाय तस्याः सह मुखश्रिया॥१४४॥ (युग्मम्) कुमारमुखचन्द्रं च निस्तन्द्रं चन्द्ररोचिषा। वीक्ष्य कण्ठे विलग्यापि मुक्तकण्ठं रुरोद सा॥१४५ ॥ आश्वासिता च तेनेयं तैस्तैर्मधूरभाषितैः । समग्रं गलितुं लग्नं दुःखं स्वेदाम्भसा समम् ॥ १४६ ॥ रसौ विजृम्भितौ तुल्यमेव प्रेमप्रमोदयोः । अङ्गतापमनस्तापावतीतौ सममेव तत् ॥ १४७ ॥ अङ्गानि च प्रफुल्लानि नयनेन्दीवरैः १ दिव्यपरीक्षायां । २. नेत्रकमलैः । . -in -. - -. . - - . . ILUPUIDULUID - - . . - -. . - . -. ॥१२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy