________________
अपराजित कथानकम्।
वधूर्गजवधूपृष्टोत्तीर्णा श्वशुरयोः पदौ । नत्वा व्यजिज्ञपन्मौलिसम्मीलितकरद्वया ॥ १२२ ॥ मया श्रीपूज्यपादानां यत्किञ्चिद्विप्रियं कृतम् । कुलरूपधनमदैः प्रमादादथ चापलात् ॥ १२३ ॥ लोभकैतवबाल्यैश्च तत्क्षम्यं सर्वमेव मे । पूज्यपादाब्जभृङ्गीत्वभाग्यं नाभूचिरं मम ॥ १२४ ॥ निर्गुणाप्यपगुण्यापि भवान्तरगतापि हि । निजनन्दनभार्येति स्मर्याहं पूजितक्रमैः ॥ १२५ ॥ श्रुत्वेति वचनं तस्याः करुणं विनयान्वितम्। धैर्यवृत्तिं विमुच्योच्चैः पूच्चकार धराधवः ॥ १२६ ।। अथैकहेलया सर्वजनाक्रन्दे समुत्थिते। वनदेव्योपि चक्रन्दुः प्रतिशब्दापदेशतः ॥१२७ ॥ उवाह वाहिनी नेत्राम्बुभिस्तत्र चमूकृतैः । अतिधीरैरपि तदा कैः कैर्न रुदितं नरैः ॥ १२८ ॥ सा प्राह वह्निभगवन् ! साहसस्यास्य चेत्फलम्। अस्ति तत्परलोकेऽपि भूयाद्धर्तापराजितः॥१२९॥ इत्युक्त्वा त्रि:प्रदक्षिण्य वहिं यावत्तदन्तरे । झम्पां ददाति सा तावत्कश्चित्तत्रागमन्नरः ॥ १३०॥ स च खड्गकरः प्राह साहसेनामुना कृतम् । पित्रोराज्ञास्ति ते झम्पां यदि दत्से हुताशने ॥१३१ ॥ धूमेन वदनं तस्याः सोऽपश्यन्नाह का शुभे! । त्वं कस्य हेतवे चैवं साहसंच व्यबस्यसि॥१३२॥ कुशल्यस्ति समं देव्या देवः श्रीजयशेखरः । या चागता कुमार्यासीदिह साभूत्कथं शुभा॥१३३॥ पित्राज्ञायन्त्रिता साथ विरम्यानलपाततः। तस्याननमपश्यन्ती प्रकाशं द्वेषभावतः॥१३४॥ मदीयप्रस्तुतार्थस्य कोऽयं विघ्नकृदांगमत् । हृदये चिन्तयन्तीति तस्याख्यातुं
॥११॥