SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ - i III - -i - -. - -. अपराजित कथानकम्। - - . L -il-il-il- - ++ - + - - - - -. IDIOICICICICIDIDIDI - -. - -. - -. - -. प्रतीक्षस्व चतुर्यामीमित्युक्त्वा सा स्थिरीकृता । सम्बोधयितुमारब्धा न चाबुध्यत्कथञ्चन ॥ ११०॥ तस्यां कृतोपवासायामखिलोऽपि पुरीजनः । चित्रलिखितवजज्ञे सर्वकार्यविवर्जितः॥१११॥ साउथ सायं वशारूढा वार्यमाणापि भूभुजा । सुवर्णवृष्टिं कुर्वाणा पूर्णचन्द्रमुखप्रभा ॥ ११२ ।। स्वसैन्यकृतमाक्रन्दं समकालंच श्रृण्वती। जङ्गमं तीर्थमेषेति श्लाघ्यमाना सखीजनैः॥११३॥ सङ्गमो दयितेनास्या अस्मच्छीलेन जायताम् । इत्थमाशास्यमानोच्चैर्वृद्धस्त्रीभिः पदे पदे ॥ ११४ ।। पौरलोककृतान्देवोपालम्भानपि श्रृण्वती। राज्ञानुगम्यमाना सा निर्गता नगराहिः ॥११५॥ (चतुर्भिः कलापकम्) तया गत्वा नदीतीर्थे चिता चन्दनदारुभिः। कारिता ज्वलनज्वालामालाभिरतिदारुणा॥११६॥ चन्दनागरुदारूत्थवह्निचिह्नप्रसर्पणात् । वास्यन्ते स्म दिशस्तस्या यशसेव समन्ततः॥११७॥ कुमार्यच स्फुरद्वामचक्षुश्चित्ते व्यचिन्तयत् । अभूद ध्रुवं समासन्नः प्रस्ताव: प्रियसङ्गमे ॥ ११८ ॥ तदा च तरणिस्तादृगसमञ्जसमीक्षितुम् । अक्षमोऽस्ताद्रिगो वार्डों झम्पां दातुं प्रचक्रमे ।। ११९ ॥ चिताहुताशनज्वालामालाभीता इवाभितः । अनुमुः तु शिखरिणां तु शिखराणि विहङ्गमाः ॥ १२०॥ दृष्ट्वा जनस्य दुःखौघं दुःखिताया नमःश्रियः । सन्ध्यारागमिषान्मन्ये हृदयं सहसाऽस्फुटत् ।। १२१ ॥ - -. - -. - -. - -. - -. IDIDIINITIOTINI Tattoo - -. - -. - -. - -. - -. . - ॥१०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy