________________
श्रीजैन कथासंग्रहः
॥९॥
कल्पद्रोस्तव दूरेऽस्तु मे फलम्। न पाणिपल्लवोऽप्यापि मयका मन्दभाग्यया ।। ९६ ।। किं च प्रिय ! • माख्याहि सुन्यस्तोऽपि मया हृदि । तस्मिन्नस्फुटिते नाथ ! सहसा निर्गतः कथम् ? ॥ ९७ ॥ विलपन्तीति सा बाढं मूर्च्छिता भूतलेऽपतत्। उपचारैश्च बहुभिः पुनर्जज्ञे सचेतना ॥ ९८ ॥ उवाच विरहे पत्युर्ज्वलनः शरणं मम । यदुत्तमकुलस्त्रीणामिदमेवोचितं भवेत् ॥ ९९ ॥ नृपो जगाद मा खेदं कुरु वत्से ! यतस्तव । न पाणिग्रहणं तेन योग्यतास्त्यपरे वरे ॥ १०० ॥ सा प्राह तातपादानां वक्तुं नैतद्धि सङ्गतम् । व्यवहारो ह्ययं भर्ता स तु यो मानितो हृदि । १०१ ।। तन्मे स एव शरणमथवासौ हुताशनः । अलं कालविलम्बेन यद्दूरे याति वः सुतः ॥ १०२ ॥ कथं निवर्तनीयेयमित्यार्त्तमन्सोस्तदा । नृपदेव्योर्विसस्मार दुःखं सुतवियोगजम् ।। १०३ ॥ नृपो जयश्रियं प्राह वत्से ! मम निदेशतः । मासमेकं प्रतीक्षस्व यथा शुद्धिं विधाये ॥ १०४ ॥ दुर्ग्रहाभिग्रहा तस्थौ सापि देव्यपि दुःखतः । नृपस्त्वकारयत् शुद्धिं सर्वत्र प्रेष्य सादिनः ।। १०५ ।। आघोषणा नरेन्द्रेण पुरीमध्येऽपि कारिता । कुमारशुद्धयाख्यात्रे स्वराज्यस्यार्धं ददाम्यहम् ।। १०६ ।। प्रधानगमनाज्ज्ञातोदन्तः कन्यापितापि हि । सर्वत्राशोधयत्प्रेष्य सादिनोऽनवसादिनः ॥ १०७ ॥ तत्पित्रोरुभयत्रापि त्यक्तराज्याङ्गकार्ययोः । कल्पकल्पा दिना यान्ति दुःखसाम्राज्यशालिनोः ॥ १०८॥ त्रिंशत्तमे दिने कन्या प्राह पूर्णोऽधुनावधिः । तदादिशत येनाहं करोमि स्वसमीहितम् ॥ १०९ ॥
अपराजित
कथानकम् ।
॥९॥