SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ त अपराजित कथानकम्। सा सैव नवः कोऽपि मनोभवः । एकेन गुणकाण्डेन जगज्जयति योऽखिलम् ॥ ८३ ॥ विश्वमान्या स्मरस्याज्ञा कुमारेणापि मानिता। दध्यौ च भूतले स्वर्गवर्णिनीवर्णिकासको॥४४॥ कन्यया स्वप्रधानानां पुरतोऽथ निवेदितम्। चित्रकृद्रूपतश्चित्रकृद्रूपं भूपजन्मनः॥ ८५॥प्रधानैः सुमुहूर्तेऽथ विज्ञप्तो जयशेखरः । देवापराजितस्येयं जयश्रीरुचिता प्रिया॥८६॥ तदीयवचनं सद्यः प्रतिपद्य प्रमोदवत्। गणकैर्गणयामास सुलग्नं जगतीपतिः ।। ८७ ॥ त्यक्तान्यकृत्यो भूपस्यादेशात्तस्याः परिच्छदः । एकाग्रचित्तः समभूत्पाणिग्रहणकर्मसु ॥ ८८ ॥ नृपस्य परिवारस्य कुमारस्य जयश्रियः । वासरास्ते प्रयान्ति स्म प्रमोदभरभासुराः॥८९॥ वासरेऽथ विवाहस्य तूर्यनादे प्रसर्पति। दीयमानेषु दानेषु क्रियमाणे च मङ्गले ॥ ९०॥ निःप्रत्यूहो विवाहो यद्यनयोः स्यात्ततो वरम् । दृग्दोषो भविता तथ्यं जल्पत्येवं जनो मिथ: ॥९१॥ विवाहवेदिकामध्ये स्थितेऽपि च वधूवरे। वाताहतो दीप इव कुमारोऽदृश्यतामगात् ॥१२॥ अथ विस्मयशोकानामभवद्धाजनं जनः । चक्रन्द राजपुत्री तु दैवोपालम्भगर्भितम् ॥ १३ ॥ विप्रयोगं ददानेन कुमारेण समं मम । कृतान्त ! किं त्वया प्रापि पीयूषे क्षिपता विषम् ॥ ९४ ॥ - 'वैधेयोऽसि विधे! सृष्ट्वा तादृशं हरन् । निर्दयो वज्रदुष्टचरितश्च त्वमेव हि ॥ १५ ॥ हा प्राणनाथ ! १मूर्खः। ॥८॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy