________________
-
-
THI-III-II
-
-
अपराजित कथानकम्।
-
II-III-11-1-1. -I-III-II-IIIIIL
पूजाफलमेतन्मयाप्यत ॥ ७० ॥ अम्बामुखेन विज्ञप्तस्तातः शङ्केति मे हृदि । प्रतिबिम्बसमं बिम्बमस्ति वा नास्ति वाद्भुतम्॥७१॥ तातादेशेन तदहं स्वयं गत्वावलोकये। प्रेषिता च नृपेणैषा प्रधानपुरुषैः सह ॥७२॥प्रहितं चतुरङ्गं च सैन्यमेतत्तया सह। पथस्थान्यनृपव्यूहप्रत्यूहव्यूहनाशनम् ।। ७३॥ यद्यस्यास्तत्र यातायाः कुमारः प्रतिभासते। कारणीयं ततः पाणिग्रहणं कृतविस्तरम्॥७४ । लब्धादेशाः प्रधानास्ते तत एव समागताः। सम्मन यता सत्यं सा जयश्री: समागता॥७५॥ विसर्जयत तब्यमाडम्बरमशेषकम् । नैव यावदिहाद्यापि कन्यासैन्यं समेति तत् ।। ७६ ॥ विसृज्य बलसन्नाहं कुमारः स्थानमागमत् । जनं संस्थापयामास बाह्यं चारक्ष्यपूरुषैः ।। ७७॥
नृपः कन्यागमोदन्ते विजयेन निवेदिते । तं देशनायकं चक्रे प्रसादविशदाननः ॥ ७८ ॥ कन्यासैन्यस्य चावासस्थानकानि न्यधापयत् । प्रधानान्सम्मुखान्प्रेष्य सर्वमातिथ्यमातनोत् ॥ ७९ ॥ अन्यदा च तदावाससमीपेनापराजितः । इभारूढो व्रजन् रगत्तुरङ्गमचमूवृतः॥८०॥ शुभन् शुभ्रातपत्रेण वीज्यमानश्च चामरैः । अखण्डचण्डदोर्दण्डमण्डलाधिपमण्डितः ॥ ८१ ॥ विराजमानो नेपथ्यछाययातीवतीव्रया। तस्या दृष्टिसुधावृष्टिरजायत कुमारतः॥८२॥ (त्रिभिर्विशेषकम्) अचिन्तयच्च १. गच्छता।
॥७॥