________________
अपराजित कथानकम्।
कवासग्रहः
॥६॥
वर्द्धन्ते यत्र वासराः । जाता विरहिणीदुःखं निरीक्ष्यैव निशाः कृशाः॥५८॥
ततः पौरजनो गौरमुखः सर्व: स्मरोत्सवे। अचलत्काञ्चना कल्पकल्पनास्थिरितेक्षणः ॥ ५९॥ सा कुमार्यप्यनाहार्यरूपा' भूपालनन्दना। यान्ती मदनपूजार्थं निरक्ष्यत तदा मया ॥६०॥ चिन्तितं च दलैश्चक्रे यैः कुमारोऽपराजितः । तैरेव विधिना मन्ये सेयं सुसदृशी ततः॥ ६१ ॥ संयोगो विक्रमेणेव कुमारेण समं ततः । अस्या जयश्रियः कर्तुमुचितः प्रतिभाति मे ।। ६२ ॥ ध्यात्वेत्यहि द्वितीयस्मिन् युष्मदुद्वाहहेतवे । राज्ञः कन्या मयायाचि स प्राहेति सुसुन्दरम् ॥ ६३ ॥ परं पुराप्यसौ कन्या याचिता बहुभिर्नृपैः । दर्शयित्वा कुमाराणां प्रतिरूपाणि मेऽग्रतः॥६४॥ एकस्यापि पर रूपमस्या न प्रतिभासितम् । तत्त्वं रूपं कुमारस्य दर्शयाऽऽनीतमस्ति चेत् ॥६५॥ मयाथ प्राक् सहानीतं चित्रस्थं चित्रकारिते। चिद्रूप! दर्शितं रूपमाप भूपस्ततो मुदम् ॥ ६६ ॥ प्रैषीत्कन्यान्तिके तस्याः पश्यन्त्यास्तच तत्क्षणात् । समं रूपमरूपस्य शराश्च प्राविशन् हृदि ॥ ६७ ॥ य एव रत्नवलया दृढाः प्राग् दर्शनेऽभवन् । त्वत्सङ्गचिन्तादौर्बल्यात्त एव ग्लथतामगुः ॥ ६८ ॥ क्षणं परिचितेनापि त्वद्रूपेण वशीकृता । सा दर्शनरसादौज्झनिद्रां चिरसखीमपि॥६९॥ अहोरात्रं तयालोक्य निजः प्रोचे सखीजनः। कल्ये रतिपतेः . १. स्वर्णाभूषणम् । २. अकृत्रिमरूपा।
DIDIDICICICIDIDIDIDI
॥६॥