________________
dil
UUL
TIL
श्रीजैन
कथासंग्रहः
OIL
अपराजित कथानकम्।
॥४॥
सदा । तथाप्येनमविनयं तात: सहतु मत्कृतम् ॥ ३२॥ कथं च मयि सत्यूर्जे योर्बु तातस्य युज्यते॥ त्वयान दृष्टं प्राक् युद्धं तातपादा यदादिशन् ॥३३॥तत्र विज्ञप्यमीदृक्षं ज्ञायते दृष्टमेव किम् । अदृष्टमपि यद्ग्रन्थबलेन ज्ञायतेऽखिलम् ॥ ३४ ॥ ममात्र 'जन्ययात्रायां तातपादप्रसादतः । करग्रहः कुमारस्य भविष्यति जयश्रियाः ॥ ३५ ॥गत्वा विज्ञप्यतां तातो मम साहाय्यहेतवे । न प्रहेया चमूर्ध्वान्तध्वंसेऽरुणसखो हलम् ॥ ३६ ॥ प्रधानेनेति विज्ञप्ते नृपस्तोषादभाषत । ज्ञायते मम पुत्रो यदीदृक् चित्तं शिशोरपि॥ ३७॥ प्रधाना: प्रोचिरे युक्तं सिंहः सिंहस्य नन्दनः। रविरेवरवेर्बिम्बं कल्पद्रुश्च तदारः॥३८॥ नृपः प्राह कुमारेण निषिद्धापि पताकिनी। प्रेष्यतां वातनुन्नो हि वहिर्दहति काननम् ॥ ३९ ॥ चक्रव्यूहं कुमारोऽथ विनिधाय स्वचक्रगम् । सम्मुखः परचक्रस्याजनि चक्रधरप्रभः ॥ ४०॥ तदानोदुषितं वर्यवर्मण्यस्य वपुर्ममौ । उत्साहो द्विगुणश्चासीत्स्फुरिते दक्षिणेऽक्षिणि॥४१॥ दृश्यते केवलं दीप्यमानमायुधमण्डलम् । पताकाः पवमानेन कम्पमानाच सर्वतः॥४२॥ इतश्च विजयो नाम प्रधानः प्रहितः पुरा। जयशेखरराजेन परसैन्यात्स आगमत् ॥४३॥ अपृच्छच्च बलमिदं किमर्थ समनहत । कश्चात्र सैन्यनाथोऽस्ति प्राहकोऽथ महापुमान् ॥४४॥ आगच्छतोऽस्य सैन्यस्यादः सैन्यं प्रगुणीकृतम् १ बलवति ॥ २ युद्धयात्रायाम् । ३ सेना। ४. रोमाञ्चितम् ।
1
-
-
. 1
10
-
-
. 1
-
-
.
.