________________
श्रीजैन कथासंग्रहः
॥३॥
बलं बाहोरुत्साहेन सहाधिकम् । दधुरङ्गानि लालित्यं भारत्याः कलया सह ॥ २० ॥ समं जनानुरागेण रागोऽभूत्करयोरपि । विवेकेन सहोल्लासं देहकान्तिरवाप च ॥ २१ ॥ कलाकलापकलितः सुरूपो विनयान्वितः । जनानामपि जज्ञे स प्रियो जनिकृतो यथा ।। २२ ।। पाणिग्रहणयोग्यं तं मत्वा प्रैषीन्नराधिपः । प्रधानान्सर्वदेशेषु नृपकन्या निरीक्षितुम् ॥ २३ ॥ कुमारस्तु परिजने सत्यप्यादेशकारिणि । आदेशं कुरुते पित्रोः स्वयं विनयतो द्रुतम् ॥ २४ ॥
अन्यदावाहकेलिं' स गतो वाहान' वाहयत् । जातश्रमश्च कंकेल्लितरु' मूलमुपाविशत् ॥ २५ ॥ तत्र तिष्ठति भूपालसुते रेणुभरोऽस्फुरत् । तस्मिन्ससम्भ्रमे वाद्यरवोऽभूच्च श्रवोऽतिथिः ॥ २६ ॥ परचक्रं समेतीति बहिर्वासी जनोऽखिलः । अन्तर्विशन्न माति स्म गोपुरेषु पृथुष्वपि ॥ २७ ॥ नृपोऽपि तुमुलं श्रुत्वाऽपृच्छदासन्नपूरुषान् । तेभ्यो ज्ञातारिवृत्तान्तो यात्राभेरीमवादयत् ॥ २८ ॥ डूचे च सज्जतां सैन्यं चतुरङ्गमपि क्षणात् । आकार्यतां कुमारश्च त्वरितं वाहकेलितः ॥ २९ ॥ तं मुक्त्वात्र यथा शत्रून् जेतुं यामो वयं स्वयम् । सैन्यं सज्जमभूदागात्प्रधानश्चापराजितम् ॥ ३० ॥ स प्राहाह्वयते देवः स्वयं रिपुरणोन्मुखः । डूचे चादृष्टयुद्धोऽसि तन्न स्थेयं युधि त्वया ॥ ३१ ॥ कुमारः प्राह तातस्यादेशः शिरसि मे १ अग्रक्रीडाम् । २ अन्वान् । ३. अशोकतरुमूले ।
अपराजित कथानकम् ।
॥३॥