SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥२॥ धौरेयश्व भविष्यति । एवमस्त्विति सा प्रोच्य शकुनग्रन्थिमाददे ।। ६ ।। तस्थौ च जाग्रती देवगुरुस्मृतिपरायणा । प्रभातसमये चेत्यपाठीन्मङ्गलपाठकः ।। ७ ।। सूर्योदयेऽधुना देव ! ययुराशाः प्रकाश्यताम् । तत्कल्पानि कार्याणि कुरु सम्प्रति भूपते ! ॥ ८ ॥ दध्यौ नृपः प्रियास्वप्नसम्बद्धं बन्दिनो वचः । कृत्वाथ नित्यकृत्यान्याजुहाव स्वप्नपाठकान् ।। ९ ।। बहुमानेन सन्मान्य तेभ्यः स्वप्नं न्यवेदयत् । ते प्राहुर्भविता देव ! सुतः सर्वगुणैर्युतः ॥ १० ॥ तथाहि त्यागवान् भोगी गम्भीरो विनयी नयी । शूरो वीरो महाधर्मी परोपकारणोद्यतः ॥ ११ ॥ तानाह नृपतिस्तुष्टो गजाश्ववसनं वसु । यद्ग्रहीतुमहोरात्रात् क्षमा गृह्णीत तत् स्वयम् ॥ १२ ॥ तैरूचे वितरस्युच्चैर्यदेवं देव ! नः प्रति । भविष्यतः सुतस्यानुसारतस्तदियं मतिः ।। १३ ।। रत्नगर्भेव देवी तद्गर्भरत्नमपालयत् । अभूच्च तत्प्रभावेण वल्लभा भूभुजोऽधिकम् ।।१४।। अपूरयन्नृप्रस्तस्या दौहृदं धृतसौहृदम् । समये परिपूर्णे च सुतरत्नमसौदसौ ।। १५ ।। नृत्यद्विलासिनीवर्गत्रुट्यन्मुक्ताकलापकम् । आनन्दकन्दलीकन्दं वर्द्धापनमजायत ।। १६ ।। मास्यतीतेऽस्य बालस्य नाम चक्रेऽपराजितः । न पराजेष्यते केनाप्ययमित्थं दधन्नृपः ॥ १७ ॥ धात्रीभिः पञ्चभिर्लाल्यमानोऽवर्द्धिष्ट स क्रमात् । कलाचार्यादकलयत्स कलाः सकला अपि ॥ १८ ॥ अथ तारुण्यभाजोऽस्य दृष्टिर्द्वधापि विस्तृता । विक्रमेण समं वक्षःस्थलं विपुलतां श्रितम् ।। १९ ।। अवर्द्धत अपराजित कथानकम् । ॥२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy