________________
श्रीजैन कथासंग्रहः
॥१०॥
मोझे भवे भवानस्ति, निर्विशेषमनाः सदा ॥ ९१ ॥ त्वया संयमसत्कल्प- दुमस्य कुसुमोपमम् । ज्ञानं प्राप्तं क्रमात्प्राप्यं, फलवत् परमं पदम् ॥ ९२ ॥ तव पुत्रोऽपि भूत्वाऽहं, दुष्टो जातो धिगस्तु माम् । प्रदीपजोऽथवा धूमः, किं न मालिन्यकृद्भवेत् ? ॥ ९३ ॥ एवं वदति भूपाले, किञ्चिद्वक्ति स्म नो मुनिः । मौनं हि गुणकृत्पुंसां, वार्त्तामध्यमजानताम् ॥ ९४ ॥ क्षमयित्वा महात्मानमात्मनिंन्दापरायणः । रात्रिशेषं नृपो नीत्वा, स्वावासे निरजीगमत् ।। ९५ ।। प्राचीनाचलशृङ्गाग्रं, शृङ्गारयति भास्वति । दीर्घपृष्ठगृहं पुंभिः परितः स्वैरशोधयत् ।। ९६ ।। लब्धा भूमिगृहे भग्नी, सर्वस्वमथ दण्डितः । देशान्निष्काशितो मन्त्री, बालकैरपि धिकृतः ।। ९७ ।। एवं विडम्बनापत्रेऽपकीर्तिकुसुमाकुले। स्वामिद्रोहडुमे कीहक्, फलं भावि न वेद्यि तत् ॥ ९८ ॥ परः शतप्रसादानां, पात्रीभूयापि भर्त्तरि । यो वाञ्छत्यहितं कर्तुमधमोऽत्र शुनोऽपि सः ।। ९९ ।। प्रत्ययस्फुरज्ज्ञाना- ऽपास्तग्रहपतिप्रभम् । मुनिं नन्तुं गतो राजा, राजितश्छत्रचामरैः ॥ १०० ॥ जनतायां निविष्टायां, समस्तायां यथाविधि । यथास्थितगुणैः स्तोतुमारेभे नृपतिर्मुनिम् ।।१०१ ।। गाथाः कथयता स्वं यन्मां त्वया च कुमन्त्रितः । रक्षित्वा स्वपरार्थाभ्यां कृतं ज्ञानं फलेग्रहि ॥ १०२ ॥ गुणग्रामाभिरामस्त्वं, पितः ! संस्थापयन् पदौ । वन्द्यां न कुरुषे तीर्थी- भवन्तीं कस्य भूमिकाम् ? ॥ १०३ ॥ इति संस्तुवता राज्ञा, सह तेनाखिलैर्जनैः । यथोक्तं साधुना धर्म, प्रमोदात् प्रत्यपद्यत
'यवराजर्विकथा |
॥१०॥