________________
श्रीजैन कथासंग्रहः
यवराजर्षिकथा।
॥१२॥
॥१०४॥ प्रबोम्येति सुतं लोकान्, प्रभाव्य जिनशासनम् । समया स्वगुरून् साधु-विहृत्य पुनरागतः ॥ १०५॥ क्षेत्रपालेन बालेन, तथा कुम्भकृता स्फुटम् । कृताभिरपि गावाभि-जर्जातोऽहं ज्ञानवानिव ॥१०६॥भन्यास्ते पृथिवीपीठे, ये पठन्ति शठेतराः। सिद्धान्तं सर्वदा शुद्ध-श्रद्धया वर्द्धमानया॥१०७॥ इति ध्यायन् सदाधीते, निर्मायः समयं मुनिः । पिबन्तमिव पीयूष-मात्मानं मन्यते स्म च ॥ १०८॥ विनिवर्त्यामुना लोभो, वस्त्रपात्रा सनादितः । एकातपत्रितो प्यान-स्वाध्यायविनयादिषु ॥ १०९ ॥ स्वाध्याये बहधीतेऽपि, तस्येच्छा न न्यवर्तत । महतामपि लोभो हि, यवालाभं प्रवर्द्धते ।। ११०॥ तप्त्वा तीव्रतपो निपीय विविधस्वाध्यायतत्त्वामृतं, वैयावृत्त्यपरायणः प्रतिदिनं संसेवमानो गुरुन् । सच्चारित्रपवित्रितात्मचरितो भूशुद्धिनीरं यवो, राजर्षिर्विधिना विपद्य विबुधः स्वर्गेऽभवद्दीप्तिमान ॥ १११ ॥ एवं निशम्य यवराजऋषेश्चरित्रं, कर्पूरदीप्तिभरचौरगुणैः पवित्रम् । संसारवारिधितरीतुलिते प्रयत्नं, स्वाध्यायकर्मणि गुणे कुरु निःसपत्नम् ॥ ११२॥ .
॥ इति श्रीज्ञानोपरि यवराजर्षिकथा समाप्ता॥ समाप्तेयं ज्ञानोपरि यवराजर्षि कथा।
॥११॥