________________
श्रीजन
यवराजर्षिकथा।
कथासंग्रहः
॥९॥
विज्ञाय ज्ञानिना पित्रा, तस्य नाम प्रकाश्यताम् ॥ ८३॥ 'कुम्भकारकृतां तावद, गाथां क्रमसमागताम्। परावर्तयति स्मासौ, महात्मा मधुरम्वनिः ॥ ८४॥ सुकुमालग! भद्दलगा!, रत्तिं हिण्डणसीलगा!। भयं ते नत्विममूला, दीहपिठाओ ते भयं ॥३॥- मूषकस्य राज्ञश्च शरीरसौकुमार्यभावात् सुकुमारक! इत्यामन्त्रणम्, पहलगत्ति भद्राकृते!, रात्रौ हिण्डनशीलता मूषकस्य दिवा मानुषावलोकनचकिततया राज्ञस्तु वीरचर्यया रात्री पर्यटनशीलत्वात्, भयं ते तव नास्ति मन्मूलात् मन्निमित्तात् किन्तु दीर्घपृष्ठात् एकत्र सर्पात् अपरत्र तु अमात्यात् ते तव भयमिति । श्रुत्वा तां भूपतिर्दथ्यौ, निःसीमज्ञानवान्मुनिः । मचिन्तितं स्म जानाति, भनक्ति स्म च संशयम् ॥८५॥ प्रविष्टो द्वारमुद्घाट्य, भूपः सोपाश्रयान्तरे। मुन्नभुजलं नेत्र-युगलेन निरन्तरम् ॥ ८६ ॥ पितरं संयतं ज्ञान-वन्तं हन्तुमिहागतम् । धिग् धिग् मामिति निन्दन् स्वं, पुनरुक्तं हृदोऽन्तरे ॥ ८७ ॥ मुनिं क्षमितवान् पाद-पद्यविन्यस्तमस्तकः । गिरा प्रकाशयन् दोषान्, स्वस्य साधोर्गुणानिति ॥८८॥ सुतः स्यात्कुसुतो लोके, पिता न कुपिता क्वचित् । पदमाचं मया सत्या-कृतं तावत् त्वया परम् ।। ८९ ॥ पायितोऽपि पयः सर्पो, विषमेव विमुञ्चति । अहितं त्वय्यपि ध्यायन्, तत्समो जातवानहम् ॥ ९० ॥ शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि। १कुम्भकारकृता गाथा।
॥९॥