________________
श्रीजैन कथासंग्रहः
यवराजर्षिकथा।
॥८॥
निरिक्खसी। लक्खिओ ते मया भावो, जवं पत्थेसि गहभा॥१॥ आ-ईषद् आभिमुख्येन वा धावसि आधावसि, प्रकर्षेण पृष्ठतो वाधावसि प्रधावसि, मामपिच निरीक्षसे, लक्षितस्ते मया भाव: अभिप्रायो यथा यवं यवधान्यं चरितुं प्रार्थयसि भो गर्दभ!। द्वितीयपक्षे यवनामानं राजानं मारयितुं भो गर्दभनृपते ! प्रार्थयसीति ॥१॥ श्रुत्वा तां चिन्तितं राज्ञा, मत्पित्रा ज्ञानमर्जितम् । विज्ञातोऽहमिहायातः, क्रूरः 'पश्यन्नितस्ततः ॥ ७८ ॥ सत्येन यद्ययं ज्ञानी, तच्छुद्धिं वक्तु मे स्वसुः । नृपे चिन्तयतीत्यन्यां, 'गाथां वक्ति स्म संयतः॥७९॥इओ गया इओ गया, मग्गिज्जन्ति न दीसई। अहमेयं विजाणामि, अगडे छूढा अडोलिया (अणुल्लिया)॥२॥
इतो गता इतो गता, मृग्यमाणा न दृश्यते, अहमेतद् विजानामि अगडे' भूमिगृहे गर्तायां वा क्षिप्ता अडोलिका' (अणुल्लिया) उन्दोयिका नृपतिदुहिता वा॥२॥ तामाकर्ण्य सकर्णेन, चिन्त्यते स्म महीभुजा। चिन्तितं जनको ज्ञात्वा, प्रत्युत्तरयति स्म माम्॥८०॥ चन्द्रसूर्यप्रभा यत्र, प्रवेशं लभते न हि । ज्ञानमस्खलितं ज्ञान-वतां तत्रापि सर्वदा ॥ ८१॥ अहो! ज्ञानवतां ज्ञान-मादर्शन समं सदा। प्रतिबिम्बति यत्राशु, त्रिलोकी सकलापि हि ॥ ८२॥ गोपिता मत्स्वसा येन, स मे दुष्टतमो रिपुः। १.बालेनोका गाया।
॥८॥