________________
यवराजर्षिकथा।
श्रीजैन कथासंग्रहः
॥७॥
मन्त्रिणाऽपि श्रुतं कुम्भ-कारगेहे समागतः । यवराजर्षिरस्तीति, तेन चित्ते च चिन्तितम् ॥६६॥दुस्तपं तपता तेन, निश्चितं ज्ञानमर्जितम् । तन्नास्ति तपसा यन्न, साध्यते भुवनत्रये॥६॥ निशम्य मुखतोऽमुष्य, मद्वृत्तान्तं महीभुजा । कृतान्तस्यातिथि: कार्यः, कुटुम्बसहितोऽप्यहम् ॥ ६८ ॥ आत्मीयेनैव पापेन, पापी सर्वत्र शङ्कते। मन्त्रयित्वा ततो गूढे, प्राप्तो मन्त्री नृपौकसि ॥६९॥ पृष्टं राज्ञाऽधुना केन, हेतुना यूयमागताः?| विज्ञप्तं मन्त्रिणा प्राप्य, च्छलं देव ! निशम्यताम् ॥ ७० ॥ व्रतानः पिताऽऽयासीत्, कुम्भकारगृहे तव । स राज्यं शक्तिभक्तिभ्यां, प्रभाते लास्यति ध्रुवम् ॥ १॥ पिता गृह्णाति चेद्राज्यं, मम भाग्योदयस्तदा। पदातीभूय सेविष्ये, सर्वदा तत्पदाम्बुजौ॥७२॥ वदन्तमिति राजानं, प्रति मन्त्री स्म भावते। राज्यं ग्राह्यं हठात् प्राप्तं, नेयं नीतिर्यदर्प्यते॥७३॥ कुम्भकारगृहे यात्वा, पितरं मारयाधुना । राज्यलक्ष्मीस्ततो देव !, निःशल्या भुज्यतां त्वया ॥ ४ ॥ मन्यते स्म तदीयां स, बाचं धिग् निर्विचारताम् । कुल्या राजा च नीयेते, यतो यानस्ततोऽथवा ॥ ७५ ॥ चलति स्म निशीथेऽपि, निःसहायोऽसिभृत् नृपः। सुप्तेषु सर्वलोकेषु, कुम्भकारगृहं गतः ।। ७६ ॥ पिता जागर्ति शेते वा, द्वारच्छिद्रेण बीक्षते । गाथाद्या' गुणिता तावत्, क्षेत्रपालस्य साधुना ॥ ७॥ आधावसी पधावसी, ममं वा वि १.क्षेत्रपालोक्ता गाथा।
॥७॥